________________
कुट्टनीमतम्।
२७१
कार्पण्येन ययाचे मखसमये यो बलिं हृषीकेशः । न स भवति समो भवता दानकनिषण्णहृदयेन ॥ ७७४ ॥ भूमिभृतामुपरिस्थित उन्नतये सकलजीवलोकस्य । दृष्टः सन्तापहरो मेघवदासारदानदक्षस्त्वम् ॥ ७७५ ॥ बहुमार्गो भद्रयुतः कुमृतिपरो गोत्रभेदकरणपटुः । गङ्गाजलप्रवाहः पुण्यवशात्केवलं तव समानः ॥ ७७६ ॥
न्वयः । कांक्षति स्म अभिलिलेषु:, मुरारि कृष्णम् । गोपी गा: पातीति गोप: 'तस्येदं । इत्यण् इति गोपी। उक्तं च दशकुमारचरिते-" पद्मनाभस्य षोडशसहस्रान्तःपुरविहारः ।" (उ०३) इति ॥ प्रतीपालंकारः, तद्भेदादि कुवलयानंदे-"प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् (१) । अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् (२)॥ वयॊपमेयलाभेन तथाऽन्यस्याप्यनादरः (३)। वयेनान्यस्योपमाया अनिष्पत्तिवचश्च तत् (४) ॥ प्रतीपमुपमानस्य वैयर्यमपि मन्वते (५)" इति । प्रकृते द्वितीयप्रतीपत्वं स्पष्टम् । त्वं बहुरमणीवल्लभ इति तात्पर्यावसानात् च व्याजस्तुतिळग्या ॥ ७७३ ॥ तस्य दातृत्वं वर्णयति कार्पण्येनेति । ] कार्पण्येन दैन्येन । [ययाचे पादत्रयमितां भूमि, मखसमये यज्ञकाले, बलिं तन्नामकं दानवं विरोचनपुत्रं प्रहादपौत्रं, हृषीकेशः हृषीकाणां इन्द्रियाणां तत्प्रवर्तकत्वेन ईश: पति: अत: सर्वान्त:करणवृत्तिज्ञ: विष्णुः, प्रकृते वामनरूपः; स दानकनिषण्णहृदयेन सर्वदा दानशीलेन भवता, न सम: न तुल्यः, यत: सर्वदो विष्णुरपि कदाचित् याचकोऽभूत् , त्वं तु सर्वदा दातैव । व्यतिरेकालंकारः, " व्यतिरेको गुणैः श्लाघोपमेय उपमानतः ।" इति (साहित्यसारे ८।१७६) लक्षणात् ॥ अनया तस्य दानवीरत्वं सूचितम् ।] ॥ ७७४ ॥ भूमिभृत: राजानः पर्वताश्च । [ संताप: कष्टं धर्म च । आसारः सुहृद्धलं धारावृष्टिश्च, " आसार: स्यात्प्रसरणे वेगावर्षे सुहृद्धले । " इति शाश्वतः । सकलजीवलोकोनत्युक्त्या तस्य तस्मिन् अनुरागः सूचितः, तेन च दानशीलस्य तस्य सर्वसंपत्प्राप्ति: ध्वन्यते, यथोक्तं-"जनानुरागप्रभवा हि संपदः ।" इति, तेन च स: भूमिभृतां उपरि स्थितः इति समुचितम् । श्लेषानुगृहीतोपमालंकारः। अनयापि तस्य दानवीरत्वमुक्तम् ] ॥७७५॥ मार्ग: व्यवहाररीतिः वर्त्म च । भद्रं [सुवर्ण] कल्याणं [च, " भद्रं तु ___७७४ ब्राह्मण्येन य (प. स्तं )। भवतो (प, स्तं)। हृदयस्य (प. २) ७७५ उन्नत्या (प. स्तं)। तृष्णासंतापहरो मेघ इव कदा न दक्षस्त्वम् (प. स्तं) [ न्यूनश्लेषोऽयं पाठः ] ७७६ भंग (यु?)तः (प. स्तं) । वाहः पुण्यदिशा (गो) पूज्यदिशा ( गो २ का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com