________________
कुट्टनीमतम् ।
६९
अटता जगतीमखिलामिदमाश्चर्य मया पर दृष्टम् । धनदोऽपि नयननन्दन परिहरसि यदुनसंपकम् ।। ७६९ ॥ इदमपरमद्भुततमं युवतिसहविलुप्यमानस्य ।
वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोषस्य ॥ ७७० ॥ अपि, भिन्न: विदारित: । अंधकासुरकथा स्कान्दे शंकरसंहितायां हरचरितचिंतामणौ पंचमप्रकाशे च विस्तरेणोक्ता । तत्र च " गणानुपद्रुतान्पश्यन्नन्धकं च महाबलम् । हसन्महेश्वरः शूलशिखायां तं न्यवेशयत् ॥ (८०). ' 'अथ तत्र त्रिशूलाग्रे स शुष्यन्नंधकासुरः । (९०) संवत्सरसहस्रान्ते प्रोवाच प्रणमन् हरम् । " इत्युक्तम् ॥ तथा च वर्णितं हरविजयमहाकाव्ये-"स्मितविकसितगण्डभित्तिभागस्तमभिमुखं गुरुवेगमापतन्तम् । समभिनदशेषदैत्यकान्ताजनहृदयैत्रिशिखेन शूलपाणिः ॥” (५०८३) इति । त्वया, तु: पूर्वोक्तविरोधे, समरे संग्रामे, बहवः असंख्याताः रिपवः न तु अंधकवदेकः, प्रेक्षकाः अपि-न योद्धारः, न तु तद्वत् प्रणता: अपि इति भावः, मुक्ताः न तु भिन्नाः घातिता वा । विरोधानुगृहीतः सहेतुव्यतिरेकालंकारोऽत्र, ' भवतोभवतो' इत्यत्र च भिन्नार्थे पदावृत्तेः यमकाख्यः शब्दालंकारः ॥ ७६८ ॥ तस्य आश्चर्यनिधेः एक अद्भुतमाह-अटतेति । जगतीं पृथ्वी, अटता भ्रमता । आश्चर्य अद्भुतं अदृष्टपूर्व परं महत् । हे नयननंदन नेत्राह्लादक अपूर्वरूपसंपत्त्या, ] धनदः धनदाता कुबेरश्च । उग्रः क्रूरः शिवश्च, [ यदुक्तं महिम्नःस्तवे " भव: शर्वो रुद्रः पशुपतिरथोग्रः सहमहांस्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।” (२८) इति । उच समवाये इति धातोः उच्यति सर्वलोकांत:समवेतो भवतीति उग्रः शिवः । शिवकुबेरयोश्च सख्यं प्रसिद्धं, तथाहि मेघदूते-" मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं " (७९) इति, " कुबेरनयंबकसखो यक्षराड्गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ " इत्यादि च अमरः ॥ अत्र श्लेषविरोधालंकाराभ्यामनुप्राणितरूपकातिशयोक्त्यलंकारेण व्यतिरेकालंकारध्वनिः ॥ ७६९ ॥ अपरमद्भुतमाह इदमिति । सौभाग्यं स्पृहणीयता रमणीयवल्लभत्वं सौंदर्य वा, तदेव कोष: अर्थोंधः, तस्य, विलुप्यमानस्य उपभोगादिना क्षयमुपनीयमानस्य, अपरद्रव्यसंग्रहवत् क्षयो न भवति प्रत्युत वृद्धिः इतीदं अद्भुततमं परमाश्चर्यजनकम् । कोषवृद्धिप्रतिबंधके युवतिगणविलुप्यमानत्वरूपे सत्यपि तत्कार्योत्पत्तिकथनात् तृतीया विभावना " कार्योत्प
७६९धात्रीमखिला (गो २ का)। ये नवं मया (प. स्तं) । अटता पृथिवीम० मया दृष्टम् (सुभा०)७७० तरं (प. स्तं)। लेण लुप्य (प. स्तं)। कोशस्य (१. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com