________________
२६८
दामोदरगुप्तविरचितं ददतो वाञ्छितमर्थ सदाऽनुरक्तस्य तव गृहं त्यक्त्वा । स्त्रीचापलेन कीर्तिनग्रासक्ता गता ककुभः ॥ ७६७ ॥ भवतो भवतो धैर्य, तेन हि भिन्नोऽन्धको रिपुः प्रणतः ।
मुक्तास्त्वया तु बहवो रिपवोऽपि प्रेक्षकाः समरे ।। ७६८ ॥ एकत्र सकलशत्रुनिरासेन साम्राज्यभाजनतया शान्त्याऽनुपयोगात् शत्रत्यागः, अपरत्र प्रसह्य भवताऽपहृतत्वात् इत्यर्थः। विपक्ष: शत्रुः । [गण: समूहः । यत्तु त्वया हृतलक्ष्मीकोऽपि शत्रुगण: राज्यस्थितिं न मुंचति इति चित्रं, तेन च तस्य असामान्यत्वं सूचितं, ततश्च व्यतिरेकध्वनिः, स्वभावोक्तिरपि । 'आद्यस्थिति' इति पाठेऽपि स एवार्थः ॥ ७६६ ॥ तस्य कीर्ति वर्णयति ददत इति । वांछितं अभिलषितं, अर्थ द्रव्यं, ददत: अर्थिभ्यः इति शेषः, अत एव सदा अनुरक्तस्य स्निग्धस्य, कीर्तिवनितायां इति भावः, तथाहि-" दानादिप्रभवा कीर्तिः, शौर्यादिप्रभवं यशः ।" इति हैम: । सा कीर्तिः, स्त्रीचापलेन स्त्रीजातिस्वभावभूतचांचल्यगुणेन, यथोक्तं " शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ।" इति; ] ननाः बंदिनः, अथ च अवाससः [दिगंबराः, " नग्नस्त्रिषु विवस्त्रे स्यात् , पुंसि क्षपणबंदिनोः। " इति विश्वलोचनः, तेषु आसक्ता जातप्रेमा, बंदिपक्षे तदधीना इति भावः, बंदिभिरेव कीर्ते: गानद्वारा प्रसारित्वात् ; तव गृहं त्यक्त्वा, ककुभ: पूर्वादिदशदिशः शोभाश्च गता, ते कीर्तिदिगन्तं गता इति भाव: । " ककुब् दिक्शोभयोः शास्त्रे कंबले चंपकलजि । " इति विश्वलोचनः । नमासक्ता ककुभश्च इत्यत्र श्लेषालंकारः, स्त्रीचापलेन इति हेतुकथनात् हेतुरलंकारः, अनुरक्तस्य अर्थप्रदस्यापि त्यागकथनात् विरोधो व्यंग्यः, अपि च अनुरक्तस्यापि अतिदानपरायणस्य स्त्री तस्य विभवहाने: दारिद्यशंकया अन्यासक्ता नमा लक्षणया निर्लजा भूत्वा प्रथमं त्यजति इति अप्रस्तुतवृत्तान्तस्यापि परिस्फूर्तेः समासोक्तिरलंकारश्च ॥ ७६७ ॥ तस्य धैर्यातिशयं प्रशंसति भवत इति । सत्तामात्रस्वरूपत्वात् भवः शिवः, ] भवत: शिवतोऽपि, भवतो [भवच्छब्दः प्रशस्यतमे युष्मदर्थे प्रसिद्धः इति युष्माकं इत्यर्थः, ] धैर्य [तव निर्विकारचित्तत्वं चेतःसौन्दर्य, ] अधिक इत्यर्थः। [तद्वयाचष्टे तेनेति । हि यतः । तेन शिवेन, अन्धकः तन्नामासुरः, रिपुः स्वशत्रु:, प्रणतः प्रह्लीभूतः परमभक्तत्वात् ।
___७६७ मर्थ दाने रक्तस्य (का) सदनुरक्तस्य ( सुभाषितावलिमुद्रितपाठः छंदोभंगदुष्टः) ७६८ नोऽन्तको (गो. का) स्त्वयेति बहवो (का) स्त्वयापि (प. स्तं)। रिपवोप्रेक्षकाः (स्तं) रिपवस्तु (का) [अत्र पाठभेदेऽलंकारभेदः।]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com