________________
कुट्टनीमतम् ।
ताहक प्रतापदहनः सतावको व्याप्तगगनदिक्चक्रः । दृष्टो जलायमानो रिपुवनितातिलकशोभासु ।। ७६४ ॥ एष विशेषः स्पष्ट वह्नेश्व त्वत्प्रतापवश्व | अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ७६५ ।। श्रीफलभुक् पत्रवृतो विग्रह रसिको विमुक्तशस्त्ररतिः । राज्यस्थितिं न मुञ्चति हृतलक्ष्मीकोऽपि तव विपक्षगणः ॥ ७६६ ॥
२६७
लुक्, " लुपि युक्तवद्वयक्तिवचने ” ( पा. १/२/५१ ) इति सूत्रेण बंधुजीवा इति पुंस्त्वं बहुवचनं च भवति । बन्धुजीवाः 'ब पोरीया ''दुपेरीया' वा इति भाषायां प्रसिद्धानि पुष्पाणि, यानि मध्याह्न एव विकसितानि भवंति तेषां मध्याह्न दिवसस्य मध्यभाग, रूपकं, हितादीनां पुष्टिकर्ता त्वं इति भाव: । ' बान्धवबन्धु ' इत्यत्र पुनरुक्तवदाभासः || ७६३ || इतश्च ७८६ आर्यापर्यतं वर्णनभंग्याः विरोधव्यतिरेकाद्यलंकारद्वारा अद्भुतरसे परिणाम: बोध्यः । तत्र द्वाभ्यां तस्य प्रतापं वर्णयति तादृगित्यादिभ्याम् । तादृक् तथाविधः, तावकः त्वदीयः, स प्रसिद्ध:, प्रताप एव अग्नि, प्रताप: तु “शत्रूणां भयजननवार्ता ” इति ( रघु० टीका ४ | ३० ) वल्लभ: । व्याप्तेत्यादि क्रोडी - कृतसाकाशसकलदिक्समूह:, सः, अरिनारीललाटिकाविशेषकेषु, जलायमानः भर्तृवधात् विधवानां तासां सौभाग्यंदर्शक चिह्नस्य तिलकस्य प्रमार्जनात् जलवदाचरति जलायमानः दृष्टः । दहनः अभिः कथं जलायमानः भवति इति विरोधालंकारः, रूपकानुगृहीतः, जलायमानः इति लुप्तोपमा च । तेन प्रतापस्य आश्चर्यजनकत्वं द्योतितम् || ७६४ || एषः उत्तरार्धे कथयिष्यमाणः, विशेषः भेदः, स्पष्टः अविवदनीयः विवादागोचरः, प्रसिद्धाः तव प्रतापाश्च । तेन अग्निना । अंकुरति पुन: प्ररोहति । अनेन प्रतापाग्निना । उद्भवः प्ररोहः, भूयः पुनः । अत्र उभयविधवह्नेः भेदकगुणकथनात् तद्विशिष्टो व्यतिरेकालंकारभेदः ॥ ७६५ ॥ श्लेषानुगृहीतविरोधाभासालंकारेण तस्य शत्रुवर्ग वर्णयति श्रीफलेति । ] [ श्रीफलं साम्राज्यसुखोपभोगः, बिल्वफलं च । श्रीफलः श्रीयुक्तं फलं यस्य सः बिल्ववृक्षः । फलार्थे तु पुष्पमूलेषु बहुलम् " इत्याद्यूह्यम् । ] पत्राणि वाहनानि पर्णानि च । विग्रहो युद्धं शरीरं च । अधुना सुखोपभोगत्यागेन केवलं शरीरदाययैव प्रवृत्तिः इत्यर्थः । विमुक्ता शस्त्ररतियैः,
""
1
७६४ इदृक् प्र ( प. स्तं ) दहनो भावत्को ( प. स्तं ) । जलावसानो गो २ का ) ७६५ विशेषो दृष्टो ( प. स्तं ) । नोद्गमो ( प. स्तं ) ७६६ विमुक्तसस्व ( प. स्तं ) आद्यस्थितिं (स्तं ) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com