________________
२६२
दामोदरगुप्तविरचितं
पश्यत्यदृश्यमानो, निरीक्षितो वीक्षते परां ककुभम् । ब्रूते किञ्चित्सस्पृहमंभियुक्तो भवति कीलितध्वानः ॥ ७५१ ॥ न जहाति समासन्नं, नोत्सहते पार्श्वगोचरे स्थातुम् । एष मनुष्यो मन्ये निष्पतिभः साभिलाषश्च ॥ ७५२॥
(अन्तयुगलकम् ) तेऽतीताः खलु दिवसाः क्रियते नर्म त्वया समं येषु ।
अधुनाऽऽचायांनी त्वं पाशुपताचार्यसंबन्धात् ॥ ७५३ ॥ जानीयात् तथा ता: पश्यति इति भावः । एतेन तस्य कामुकत्वं सूचितम् । तत: सखीं स्वहृदयं प्रकाशयति कुमुदिनीत्यादि । अनेन व्याजलिंगिना संन्यासिनां कूटवेषधारिणा धर्मध्वजिना, मम हृदयगतं भवितव्यं मम मनोरथसिद्धिः कामशांत्यादिरूपा भविष्यति इत्यर्थः । अनुमानालंकारः ॥ ७५० ॥ काचित् तत्रागतं जडं कामुकं वर्णयति पश्यतीत्यादिना युग्मेन । कोऽपि तं रमणी: पश्यन्तं यथा न पश्येत् तथा ता: पश्यति; अपि च केनापि रमणीः पश्यन् दृष्ट: सन् तद्वंचनाय, परां अन्यां तदनभिमुखी, ककुभं दिशं, पश्यति; अपि च रमणीः इत्यध्याहार्य, ब्रूते इत्यस्य द्विकर्मकत्वात् , किंचित् अव्यक्तं स्वाभिलाषसूचकं वा, सस्पृहं सवांछं वदति; अभियुक्त: किं पश्यसि इत्यादिप्रकारेण ताभिः पृष्टश्च, कीलितध्वानः हिया भिया वा गद्गदस्वरो भवति, ॥ ७५१॥ समासन्नं मीलितं, न जहाति तत्परिहाराय त्यक्तुं न शक्नोति इत्यर्थः, न च तस्य पार्श्वगोचरे समीपे स्थातुं उत्सहते प्रयत्नं कुरुते शक्नोति वा, तेन एतैः लिंगैः, एष: पुरोवर्ती, मनुष्य:, साभिलाषः रमणीसमागमलिप्सुः, च: अप्यर्थे, निष्प्रतिभ: " प्रज्ञां नवनवोन्मेषशालिनी प्रतिभां विदुः । " इति लक्षिता प्रतिभा तया रहितः, स्वेप्सितं स्त्रीसमागमं साधयितुं या युक्तयः आवश्यिका: तासां युक्तीनां अज्ञ: इति, मन्ये तर्कयामि । अत्र पूर्वपूर्व अभिलाषेगितं, उत्तरं उत्तरं प्रतिभाभावसूचकम् । अत्रापि अनुमानालंकारः ॥७५२॥ उच्चतरपदप्राप्त्याशया उज्झितः प्रथम: कामी तत्र तामेव संगम्य सासूयं सोत्प्रासं च वदति ते इति । खलु निश्चये । येषु दिवसेषु । नर्म " शृंगारार्थ त्रपाकारि वाक्यं गोष्ठीषु नर्म तत् ।" इति लक्षितम् , यद्वा परिहासः । यतः, अधुना इदानीं, त्वं आचार्यानी आचार्यपत्नी असि इति शेषः, “ इन्द्रवरुणभव० " (पा. ४।१।४९) इति ङीषानुको, “ आचार्यादणत्वं चेति वक्तव्यं ” इति वार्तिकात् ' आचार्यांनी, ___ ७५२ स्पर्शगोचरे (प. स्तं ) ७५३ ते नीता दिवसाः खलु (गो. का)। नर्मक्रिया समं (कापा)। आचार्याणी (गो. प. स्तं. का)। भवशुद्धाचार्य (प)भाशुद्धा० (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com