________________
कुट्टनीमतम्। भ्रमसि यथेष्टं तावत् कुर्वाणो युवतिपल्लवग्रहणम् । लोलिकदास न यावन्नरदेवी पानिकां व्रजति ।। ७५४ ॥ एवंप्रकारवाच्यप्रसक्तक्टिचेटिकासमाकीणम् । सेवाचतुरपुरःसरविजनीकृतवत्मे देवकुलम् ।। ७५५ ॥
( आदिमहाकुलकम् ) संपादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके ।
त्वरितनियोगिस्थापितमासनमध्यास्त समरभटः ॥ ७५६ ॥ इति रूपं, तेन उपलब्धकोशेषु आचार्याणी इति पाठ: लेखकदोषजः ज्ञेयः । सा कथं आचार्यानी इत्याह पाशुपतेत्यादि । पाशुपत: चासौ आचार्यश्च पाशुप. ताचार्यः, पाशुपतं च तंत्रमूलक: शैवमतभेदः, यत्सिद्धान्ते पशुपतिः शिवः परमदैवतम् , उक्तं हि हरिवंशे-" पालयामि पशून् यस्मात्सृजामि च यदृच्छया । तेषां च पतिरेवाहं तस्मात्पशुपति: स्मृतः ॥” इति । ( पशुः-अस्वतंत्र: जीवः कर्मात्मा आणवादिपाशबद्धः, पतिः ईश्वरः । ) तस्य, यद्वा तन्मतावलंबी पाशुपतः । पाशुपतानां तन्मतावलंबिना, आचार्य: क्रियावान् सिद्धान्तोपदेष्टा गुरु:, इत्यर्थः । केनचित् विषयलंपटेन तेन तव संबंधात् कामसेवनरूपात् ॥ ७५३ ॥ काचित् कंचित् शठं सेवकं प्रति आह लोलिकेति । लोलिकदास इति अन्वर्थ नाम । यावत् नरदेवी तस्य स्वामिनी पत्नी वा, पानिकां प्रपा, न गच्छति न समागच्छति, तावत् युवतीनां यौवनवतीनां रमणीनां, पल्लवानां वस्त्रांचलानां 'पालव' इति भाषायां, ग्रहणं इदं आकर्षणादीनामुपल. क्षणं, तच्च स्वस्य कामुकताप्रदर्शनार्थ, कुर्वाणः, यथेष्टं इतस्तत: स्वच्छन्दानुसारं भ्रमसि भ्रमिष्यसि इत्यर्थः ॥ ७५४ ॥ एवंप्रकारे ७४३-७५४ आर्यासु वर्णितप्रकारे, वाच्ये उक्तौ, प्रसक्ताभिः तादृशोक्तिपरायणाभिः इत्यर्थः, विटैः खिङ्गः, चेटिकाभिः संधाननिपुणाभिः दासीभिः, च समाकीर्ण व्याप्तं; 'प्रकामवाम्य । इत्यादिपाठे प्रकामं अत्यन्तं यत् वाम्यं वक्रोक्तिभावः, यद्वा वाम्ये वामानां सुंदरीणां हिते हितकृत्ये तासां कामिपुरुषेण समागमरूपकृत्ये प्रसक्ताः उपस्थिता: इत्यर्थः । तथा सेवाचतुरैः उपचारकुशलैः, पुरःसरैः अग्रेगन्तृभिः अर्थात् सेवकैः, विजनीकृतं उत्सारितलोकं वर्त्म मार्ग: यस्य तत् , देवकुलं देवमंदिरं ' देवल । इति भाषायां, आगात् इति पूर्वेण ७३८ आर्यास्थपदेन अन्वयः । ७५५ ।। मंदिरप्रवेशानन्तरं तत्र तस्य नायकस्य आसनपरिग्रहमाह संपा
७५४ पाशिकां विशति (का) पाशिकां विशनी (१) पासिकां विशसि ( स्तं) [का. उत्तरार्धपाठः दुष्टः ] ७५५ एवंप्रकारवाक्यै प्रसक्त(प) एवं प्रकामवाम्यप्र. (गो. का) ७५६ उत्पादित (का) [भत्र का. उत्तरार्धं दुष्टं ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com