________________
कुट्टनीमतम् ।
कुर्वाणो मौनव्रतमुत्पादितसकलवैष्णवप्रीतिः । हरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन ॥ ७४९ ।। स्त्रैणं पश्यति युक्त्या साकाडं वर्जितान्यजनदृष्टिः । कुमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनाऽनेन ॥७५०॥
(अन्तर्विशेषकम् ) विरुद्धानाचारान् दृष्ट्वा, तं कुटं अभिज्ञाय, तस्मात् स्वमनोरथसिद्धिं निर्धारयति । अयं पुरो दृश्यमानः । ] बृसीकः यतीनां आसनम् । [गृहीतबृसिक: गृहीता स्वीकृता बृसी (बृषी इति वृषी इति च रूपान्तरे ) आसनं येन सः, " शेषाद्विभाषा" (पा. ५।४।१५४ ) इति कप्प्रत्यये “ केऽणः” (पा. ७।४।१३ ) इति ईकारस्य इकारः । कुशकर्णः इति तस्य नाम । दंडः ( पूर्व व्याख्यात: आ. ४९२ )। काषाय:-कषायः कषायं वा रक्तवर्णः " अस्त्री कषायो निर्यासे रसे रक्ते विलेपने । अंगरागे सुगंधे च, त्रिषु स्यालोहितेऽपि च ॥” इति विश्वलोचनः, तेन रंजितं वस्त्रं काषायम् । विधृतौ दंडकाषायो स्वीयसंन्यासिलिंगे येन स: । लोकानां जनानां स्पर्शस्य तेषां अपवित्रत्वात्, आशंकी आशंका भयं संशयो वा तद्वान् आशंकमानः; अत एव तर्जनाय, पार्बो स्ववामदक्षिणदेशी, विलोकयन् पश्यन् , कृतापसार: दूरं गच्छेत्यादिवाक्यैः दूरीकृतजनः, अनेन तस्य शुचित्वरक्षणाभिमानः सूचितः ॥७४८॥ मौनव्रतं मुनेः इदं मौनं तस्य व्रतं नियमधारणं मौनव्रतं तपः इत्यर्थः, तत् कुर्वाणः; अतः उत्पादितेत्यादि । वैष्णवाः विष्णुभक्ताः विष्णूपासकाः । तत्र हेतुः हरीत्यादि । हरिशासनं नारदपंचरात्रवैखानसादिवैष्णवागमादिकं, प्रपन्न: मोक्षप्राप्त्यै शरणं गतः, अयं दंडी वैष्णवमतावलंबी त्रिदंडी इति ज्ञेयं, स तादृशः, ] 'त्रिपुरान्तकदर्शनं वैष्णवशास्त्रं' [इति टिप्पणी दुष्टा, शब्दार्थानन्वयात् , वस्तुतः त्रिपुरान्तकस्य त्रिपुराख्यस्य असुरस्य नाशकस्य अर्थात् महादेवस्य, दर्शनापदेशेन दर्शनव्याजेन, अस्य उत्तरश्लोकेन संबंध: ॥ ७४९ ॥ स्त्रैणं दर्शनार्थ तत्र आगतं स्त्रीसमूह, साकांक्षं साभिलाषं यथा स्यात्तथा, युक्त्या पश्यति, स्त्रीप्रेक्षणमपि “ स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम् । संकल्पोऽथ्यवसायश्च क्रियानिवृत्तिरेव च । एतन्मैथुनमष्टांगं प्रवदंति मनीषिणः ।।" इति उक्तलक्षणस्य अष्टांगमैथुनस्य अंग इप्ति यतेः दोषत्वेन उक्तम् । कथं पश्यतीत्याह वर्जितेत्यादि । ] वर्जिता वंचिता, [ अयं स्त्रियः पश्यति इति अपरो जनो यथा न ___७४९ सकलविप्लवश्रद्धः (प) वैष्णवश्रद्धः (स्तं)। शासनं । प्रथयन् (कापा) [ न्यूनमात्रः पाठः] ७५० अंतःकुलकम् (स्तं)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com