________________
दामोदरगुप्तविरचितं गृह्णासि यत्पटान्ते मम पश्यत एव मन्द मदिराक्षीम् । अत आवयोरवश्यं सा वक्ष्यति नोक्तमन्तरं भवता ।। ७४७ ॥ योऽयं गृहीतबृसिकः कुशको विधृतदण्डकाषायः ।
लोकस्पर्शाशङ्की कृतापसारो विलोकयन् पाश्चौँ ।। ७४८ ॥ धनधूर्तस्य अपि वेश्यावंचनीयत्वं प्रकाशयति वञ्चयतीति । हे हरिणि । असौ प्रसिद्धः इत्यर्थः । हरः तन्नामा । धूर्तताभिमानेन कापट्यप्रावीण्याहंकारेण । कथं वंचयतीत्याह लिखतीति, शतं दत्त्वा अधमर्णाय स्वसंपुटे दशाधिकं शतं दत्तं इति लिखति इत्यर्थः । तरलिका काचित् मायाविनी वेश्या, सैव आवर्त: " स्यादावर्ताऽम्भसां भ्रमः" इत्यमरः, चक्रं, ' भमरा' इति भाषायां प्रसिद्धः, यत्र पतितः जनः नष्टसत्त्वो भवति इति प्रसिद्धं, तत्र निमग्नः आसक्तः सन् नष्टः नष्टसत्त्वः सः अस्ति इत्यर्थः ॥ ७४६ ॥ कश्चित् स्वसमयेन तस्यामेव वेश्यायां आसक्तं सुहृदं उद्बोधयति गृहासीति । मम पश्यत एव यत् त्वं अन्वर्थनाम्नी मदिराक्षी, पटान्ते गृहासि विनोदाय रहसि आहानाय वा तनाञ्चलं आकर्षसि, तेन हे मंद मूर्ख आवयोः रहस्यसंबंधप्रकाशनात् , भवता न उक्तं यन्न प्रकाशितं, आवयोः अन्तरं छिद्रं एकस्यामेव आवयोः परस्परसंमत्या रतिसेवनरूपं, तत् अवश्यं अन्यत्र सा वक्ष्यति, तेन अवश्यं तव तादृशकर्मणा रहस्यभेदः भविष्यति इति भावः ॥ मदिराक्षीमदयति इति मदिरं हर्षदायि, मदिरे अक्षिणी यस्या: सा; यद्वा मदिरावत् सुरावत् रक्ते रक्तवर्णे तद्वत्संमोहके वा अक्षिणी लक्षणया नेत्रप्रान्तभागौ यस्याः सा; यद्वा मदिराख्यं अक्षि दृष्टिः, यस्याः सा, अक्षिशब्दोऽत्र लक्षणया दृष्टिवचनः, यथा “ एकस्मिन्शयने " इत्यमरुकश्लोके ॥ दंपत्योः शनकैरपांगवलनान्मिश्रीभवच्चक्षुषोः।" इत्यत्र । मदिरादृष्टेः लक्षणं तु-" सौष्ठवेनापरित्यक्ता स्मेरापांगमनोहरा । वेपमानान्तरा दृष्टिर्मदिरा परिकीर्तिता || " इति संगीतकलिकायां; यद्वा मदिरे सुंदरे अक्षिणी यस्याः सा; यद्वा माद्यन्ति कामुकाः आभ्यां इति मदिरे अक्षिणी यस्याः सा; यद्वा मदिरे सुरापानादिव संजातमदे अक्षिणी यस्याः सा, तल्लक्षणं यथा-" आघूर्णमानमध्या या क्षामा चाञ्चिततारका । दृष्टिविकसितापांगा मदिरा तरुणे मदे ॥” इति ॥ ७४७ ॥ ' योऽयं ' इत्यादिभिः त्रिभिर्विशेषकेण काचित् कस्यचित् दण्डिनः वेष(प) चर्वयति जलं (स्तं ) । निमज्जति त. (गो. का)। हरिनिहतो भूलताभि. लिखति शुभं (का) [अर्थरहितः पाठः] ७४७ एव नर्मदागारात् ( प. स्तं)। मा वक्ष्यसि नोक्तमन्तरं भविता (प.स्तं) ७४८ गृहीतभूमिः (का) । कुमुदाकों (गो.का)। विधूतकाषायः (गो) [ विरुद्धार्थः पाठः ] [ अत्र का. उत्तरार्ध दुष्टम् ] Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com