________________
कुट्टनीमतम् ।
२५७
मूर्धत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः । अल्पाच्छगात्ररागो धनकुडुमलिप्तकर्णकेशाग्रः ॥ ७३९ ।। सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः । श्रवणनिवेशितकुण्डलटिट्टिभकमायकन्धराभरणः ।। ७४०॥ केयूरस्थानगतस्वर्णाकृतमन्त्रगर्भजतुगुडकः ।
मणिबन्धनविन्यस्तप्रचलाङ्करजातरूपमणिमालः ॥ ७४१ ॥ "श्वेतोऽयं वृषभो देवि सर्वसंस्कारसंयुतः। वाहनत्वे ध्वजत्वे च तदा प्रभृति योजितः ॥" इति । अपिच "शुद्धस्फटिकसंकाशो धर्मरूपो वृषः स्मृतः ।" इति शैवागमात् शुक्लधर्मरूपः वृषः तद्रपणार्थ ध्वजे अंकितः। स्पंदाख्यशैवमतभेदे तु वृष: ज्ञानक्रियासामरस्यात्मा धर्मः, ध्वज: लक्षणं यस्य स शिवः ॥ ७३८ ॥ तत्रादौ तस्य आपादमस्तकं तारुण्योचितं कामुकत्वप्रकाशकं वेषं चतुर्भिः वर्णयति मूर्धेत्यादिभिः । मूर्धत्रिभागसंस्थितं, बहदंबरचीरकेशसंयमनं नाम वस्रखण्डनिर्मितोष्णीषं ' फेंटा । इति भाषायां, यस्य सः; मूर्ध्नः वामं दक्षिणं वा भागं विहाय तेन आवृतापरशेषत्रिभागः इत्यर्थः; त्रयो भागा:. त्रिभागा:, मूर्ध्नः त्रिभागाः मूर्धत्रिभागाः, तेषु सम्यक् स्थितं वर्तमानं, यत् बृहदम्बरचीरं तत्खण्डं, तेन कृतं केशसंयमनं यस्य सः; आतापरैकदेशशेषशिरस्कः, एवं ह्येष तरुणानां आचारः। अल्पः न तु घनः, अच्छः स्वच्छ: 'अच्छा' इति भाषायां, च, गावरागः मुखशरीरादिवर्णशोभावर्धनार्थ उपयुक्तं सुगंधि रक्तचूर्णद्रव्यं रक्तोद्वर्तनद्रव्यं, यस्य सः; घनेन निबिडेन कुंकुमेन केशरेण शोभावर्धनाय लुलितत्ववारणाय स्थैर्याय च लिप्तानि दिग्धानि कर्णयोः केशाग्राणि कर्णसमीपवर्तिनां केशानां अग्रभागाः काकपक्षाः यस्य सः तादृशः ॥ ७३९ ॥ तथा सिद्धार्थानां श्वेतसर्षपाणां 'सफेत सरसव ' इति भाषा. प्रसिद्धानां यानि बीजानि निस्तुषीकृताः श्वेतसर्षपाः इत्यर्थः, तैः दंतुरं उन्नतावनतं ललाटतिलकं यस्य सः चासौ, उपयुक्तताम्बूल: भुक्तबीटिकः च, तादृशः। तथा श्रवणयोः निवेशितौ कुण्डलाख्यौ आभरणौ येन स चासौ, टिट्टिभप्रायकन्धराभरणश्च । कुण्डलं कुण्डं लक्षणया तद्वत् गोलाकारादिकं लाति गृह्णाति इति कुण्डलं, तन्नाम्नैव प्रसिद्धः कर्णाभरणविशेषः । अल्प: टिट्टिभः टिटिभकः टिटिभकः वा 'टीटोडी ' इति भाषानाम्ना प्रसिद्धः क्षुद्रपक्षिविशेषः, तदाकारः सुवर्णखण्डोऽपि टिटिभकः, ते प्रायः बाहुल्येन यत्र निबद्धाः तादृशं कंधराभरणं अवेयकं ग्रीवालंकारः यस्य तादृश: । कं शिरः धारयति इति कंधरा ग्रीवा ॥७४०॥ अपिच-केयूरं के बाहुशिरसि भूषणतां याति इति केयूरं ___ ७३९ पूर्वत्रिभाग (गो.का) । अल्पतररागसान्द्रो धन० (गो.का) ७४१ केयूरपदनियं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com