________________
२५६
दामोदरगुप्तविरचितं "आसीच्छ्रीसिंहभटो नाना नृपतिर्महीयसां श्रेष्ठः। तस्यात्मजोऽधितस्थौ(?ष्ठौ) निवेशनं देवराजसंबद्धम् ॥ ७३७ ॥ स कदाचिद्वषभध्वजदिदृक्षया परिमिताप्तपरिवारः।
अनुवर्तमान आगात्तारुण्योदीर्णवेषचरितानि ॥ ७३८ ॥ प्रवराचार्येतिनाम्ना ख्यातस्य कस्यचित् दुहित्र्या पुत्र्या, मंजर्या तदाख्यया, सा विशिध्यते कमलेश्वरपादमूलेति समासान्त:पातिना पदेन, कमलेश्वरपादाः केचन मठाधिपाः स एव मूलं कारणं जनयिता यस्याः सा, अनेन मंजर्याः व्यभिचारोत्पन्नता द्योतिता, तेन साऽपि व्यभिचारिणी इति सूचितम् । राजसुतः सिंहभटनाम्नः कस्यचित् राज्ञः पुत्रः समरभटनामा ( आ. ९६०), चर्वित: संभुक्तः, मुक्त: अनंतरं त्यक्तश्च ॥ ७३६ ॥ इत: मंजर्याख्यानं १०५६ तमी आर्या यावत् ॥ महीयसां महत्तमानाम् । ] श्रेष्ठः अग्रगामी [प्रधानतम इत्यर्थः । देवराजसंबद्धं देवराजः कश्चित् राजा तेन संबद्धं तदीयं इत्यर्थः,] निवेशनं शिबिरं, [ अधितष्ठौ अधिकारित्वेन तत्र स्थितः इति भावः। 'देवराष्ट्रसंबद्धं । इति पाठः सरल:, देवराष्ट्र: ' देवगिरि 'नाम्ना प्रसिद्धं दाक्षिणात्यराज्यं, तेन संबद्धं तद्विषये वर्तमानं इत्यर्थः, निवेशनं नगरं, अधितष्ठौ मुख्याधिकारित्वेन पालयामास इत्यर्थः ।। ७३७ ॥ सः राजसुतः, तारुण्योदीर्णवेषचरितानि तारुण्येन तरुणावस्थया उदीर्णानि दीप्तानि वेषः मनोहरवस्त्रालंकारादिधारणं चरितानि तरुण्यवलोकनप्रलोभनादीनि कर्माणि च, तानि अनुवर्तमान: सेवमानः, कदाचित् कस्मिंश्चित् काले, वृषभध्वजस्य शिवस्य प्रकृते श्रीकाशीविश्वनाथस्य दिदृक्षया दर्शनेच्छया, परिमिताप्तपरिवारः परिमितः अल्पसंख्याकः आप्तः च बंधुः बंधुवर्गश्च परिकरः यस्य एवंभूतः, ७४२ आर्यापर्यन्तं वर्ण्यमान: राजसुतः 'गंभीरेश्वरदास्यां' (आ. ७४३) इत्यारभ्य 'पानिकां व्रजति' (आ. ७५४) इत्यन्तं यत् 'प्रकामवाच्यं । तत्र 'प्रसक्ते'त्यादिविशिष्टं 'देवकुलं' (आ. ७५५) आगात् आगतोऽभूत् इत्यन्वयः ॥ वृषभध्वजः-वृषभः ध्वजे यस्य स: शिवः, तथाहि महाभारते तत्कथा-आदिसर्गे श्वेतवर्णाः गावः दर्पयुक्ताः चरंत्यः शिवे तपसि आस्थिते समन्तत: स्थानभ्रंशं चक्रुः, तदपकारेण क्रुद्धेन ताः दग्धाः, तदनंतरं वृषभेण शिवः संप्रसादितः; ततः गावः शान्ताः वर्णभेदत्वं आगताः, परमेश्वरेण च
___७३७ आसीत् सिंहटनामा प्रसिद्धनृपतिर्महीयसा श्रेष्ठः (प) सिंहपटो (गो. का) महीयसां प्रष्ठः (गो)। देवराष्ट्रसंबद्धं (प)। इतः पपुस्तके श्लोकानां एकत्वमारभ्य भि.
बाइपातः । ७३८ परिचारः (4)। दीर्घ (प) वेश (गो २ का) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com