________________
दामोदरगुप्तविरचितं
धृतवेत्रदण्डकूर्चकपरिवेष्टितसासिधेनुखड्गश्च । मृदुतरपटिकावरणः शब्दोल्बणचुचुराडूचरणतः ॥ ७४२ ।। 'गम्भीरेश्वरदास्यां लग्नः किल तव वयस्यको वीरः।
प्राप्स्यतिसाऽपि दुराशा वर्षत्रितयेन यन्मया प्राप्तम् ॥ ७४३ ॥ अंगदं बाहुभूषणविशेष: 'बाजुबंध ' इति भाषायां प्रसिद्धं, तस्य स्थानं बाहोः ऊर्ध्वभागः, तत्र गतं निवेशितं, स्वर्णेन सुवर्णेन आवृत: परिवेष्टितः, रक्षार्थ भूर्जपत्रलिखितः मंत्रः गर्भे यस्य तादृशः यः जतुगुडकः लाक्षानिर्मितगुटिका , ( मादलीउं' इति भाषायां ।) यस्य तादृशः । तथा मणिबंधने पाणिमूले प्रकोष्ठपाण्योः संधिस्थाने 'कलाइ । इति भाषायां प्रसिद्धे, विन्यस्ताः, प्रचलाः झलझलायमानाः अंकुराः किरणाः येषां तादृशानां जातरूपे हेम्नि स्थितानां मणीनां हीरकादिरत्नानां माला: पंक्तयः यस्य स: तादृशः, (एतदाभरणं 'मणिबन्धनं । इति ख्यातं ' पहोंची। इति भाषायां प्रसिद्धम् ) ॥ ७४१ ॥ तथा धृतः हस्ते गृहीतः यः वेत्रनिर्मितः दंड: 'सोटी' इति भाषायां, तस्य कूर्चकः शीर्ष येन सः चासौ, परिवेष्टितः कटिवस्त्रेण आवृतः बद्धः इति यावत् , असिधेनुना छुरिकया ' कटारी' इति भाषायां, सहित; खगः कृपाणः तरवारिः कटिस्थः यस्य च तादृशः । मृदुतरा लक्ष्णा, पटिका लघुवलं 'खेस । इति भाषायां, आवरणं अंगगोपनं यस्य सः । तथा शब्देन उल्बणः प्रचुरः, चुचुरः गमनकाले नवीनोपानजातशब्दानुकरणक: शब्दः, यद्वा शब्देषु ध्वन्यात्मकशन्देषु उल्बणः स्पष्ट: य: चुचुर इत्ययमनुकरणशब्दः, सः अंक: चिह्नं ययोः तादृशौ चरणत्रौ पादत्राणे 'जोडा' इति भाषायां, यस्य सः ॥ ७४२ ॥ गंभीरेश्वरेत्यादिना [वृषभध्वजदर्शनार्थमागतानां] विटादीनामन्योन्यसंभाषावाक्यानि । [काचित् स्वपरिचितं विटं वदति गंभीरेति । गंभीरेश्वरदासी इति कस्याश्चित् वेश्यायाः नाम, यद्वा गंभीरेश्वर इति कस्मिंश्चित् शिवालये लिंगे प्रतिष्ठापितस्य महादेवस्य विशिष्टं नाम, तत्पुर: नृत्यार्थ या दासी वेश्या 'देवदासी' 'भगवद्गणिका' वेत्याख्यया प्रसिद्धा, तस्यां; लन: आसक्तः । वयस्यक: मित्रं, वीरः इति तन्नाम । सा गंभीरेश्वरदासी,
त्रित ( प. स्तं ) । गतसुवर्णभृतमंत्र (का)। गुटिकः ( प. स्तं ) । प्रचुराकुर (गो) प्रबलांकर (गो २ कापा ) प्रवालवरजात (प. स्तं) ७४२ दण्ड ऊर्णकपरिवेष्टितसासिधेनुकनितंबः (प. स्तं) । चुंचुवाक्चर० (५) लुइचुकाईच० (स्तं) बुर्बुराङ्क (कापा ) । चरणान्तः (का) ७४३ गंभारे (का) । दास्या (प. स्तं)। [ कापूर्षिस्य पाठः दुष्टः]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com