SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २४८ दामोदरगुप्तविरचितं मन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुज्ञेयम् । तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः ।। ७१९ ।। यातेऽपि नयनमार्ग प्रेयसि यस्याः स्मृतिय॑लीकेषु । मन्ये तां प्रति नियतं कुण्ठितशरपञ्चको मदनः ॥ ७२० ॥ जीव्यत एव कथञ्चिदिग्पत्तिमिमां महद्भिरवगीताम् । विजहाति यन्न गणिका तद्वान्छितरमणलाभलोभेन ॥ ७२१ ॥ दुर्लभ एव इत्यर्थः । अनेन त्वं तादृश: मनोविश्रान्तिस्थानं इति सूचितम् ॥ ७१८ ॥ प्रियकृतस्वंयग्रहाश्लेषं प्रशंसति मन्वादि इति । त्रिकाल : मन्वादिमुनिश्रेष्ठैः स्मृतिकारैः, तत् सुकृतं पुण्यं कर्म, सुदुर्जेयं अज्ञातप्रायमेव, तैः स्मृतिषु अनुक्तत्वात् , यस्य कर्मणः फलं, प्रियेण सवेगं आगत्य प्रिया स्वयमेव आश्लिष्यत इति, "हर्षे वेगे च रभस:" इति विश्वलोचनः । अयमपि मानापनोदनोपायः। वल्लभस्य आश्लेष: इति विग्रहः, न तु वल्लभाया आश्लेषः इति विग्रहः प्रकृतविरोधित्वात् ; प्रकृते वलभाप्रतियोगिक: वल्लभानुयोगिक: आश्लेषः इत्यर्थः; अस्याः आर्याया: मुक्तकत्वे तथात्वेऽपि न विरोधः ॥ अत्र असंबंधे संबंधोक्तिरूपः अतिशयोक्तिः अलंकारः ॥ ७१९॥ प्रियदर्शनेऽपि यत् माननिर्वहणं तत् तासां कठोरहृदयत्वं प्रकटयति इति निवेदयति याते इति । प्रेयसि कामुके । नयनमार्ग याते दृष्टे । यस्याः मानिन्याः। ] व्यलीकेषु अपराधेषु [ प्रियकृतेषु, स्मृतिः स्मरणं, तद्दर्शनेन तत्कृतापराधानां स्मृतिः, तेन च या मानं न मुञ्चति, प्रत्युत रुष्टैव तिष्ठति इति भावः, तां प्रति, नियतं निश्चयेन, मदनः कामदेवः, कुण्ठीत्यादि मोघीभूतस्वशरसर्वस्वः, इति मन्ये तर्कयामि, तस्याः हृदयकाठिन्यस्य अवेधनात् इति भावः । स्वयं च न तादृशी इति सूचितम् ॥ मानात्यागेन कुंठितशरत्वानुमानात् अनुमानालंकारः ॥ तथा च अनुरागातिशयवतीं मुग्धां मध्यामपि उत्तमा मानिनी नायिका उद्दिश्य अमरुकस्य सूक्तिः-"भ्रूभंगे रचितेऽपि, दृष्टिरधिकं सोत्कंठमुदीक्षते; रुद्धायामपि वाचि, सस्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि, तनू रोमांचमालंबते; दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥ " (२८) इति । ७२० ॥ बहुपुरुषसेव्यत्वं वेश्यावृत्तिः सा विशिष्टगुणत्वात् अत्याज्या इति युक्त्या प्रशंसति जीव्यत इति । यया कयाऽपि वृत्त्या जीवितुं शक्यमेव, अत: सजनैः असकृत् निंदितां, यथोक्तं चाणक्यराजनीतिसारे-“ पराधीना निद्रा, परपुरुषचित्तानुसरणं, मुदा शून्यं हास्यं, रुदितमपि शोकेन रहितम् । पणे न्यस्तः ७२० मार्गे (गो. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy