SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । २४७ यः पुनरतिकोपानलसन्तापवशेन दूरमाकृष्टः । काचमणिः खलु स यथा परिणामं खण्डखण्डमुपयाति ॥७१७|| वेतनलाभाद्बहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः । विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु ।। ७१८ ॥ कोमलमान: लघुमानः पूर्व ( आ. ५२० ) व्याख्यातः, स एव कटुत्वं रसविशेषभाव: ' ती ' इति लोके प्रसिद्ध:, तं भजमानः, सुप्रभः शोभमानः, स्नेहः, अधिकां दीप्ततां दीप्ति भजति प्रवृद्धो भवतीति भावः " फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा । " ( नैषधीय १८ ११८ ) इति न्यायेन, ( फाणितं खण्डविकाररूपं पानकम् । ) उक्तं च शृंगारतिलके - “ मन्मथो नेर्ष्यया विना । " ( २/५३ ) इति । एतद् उपमया पुष्टं करोति, यथा सुप्रभः ज्वलमानः, पावकः अग्निः, संचाल्यमानदारुः संचालितेन्धनः, अधिकां दीप्ततां भजति इति ॥ ' कोमलमानकद ' इति पाठे टिप्पणी - ] ' कोमलः कादाचित्कः लघूपनेयः इत्यर्थः, मानो यस्या:, तथापि कदर्या स्वयं कृपणा, तां भजमानोऽधिकां दीसतां प्राप्नोति, या स्वयं कृपणाऽपि केवलं उद्दीपनाय लघुमानं बिभर्ति सर्वदा च प्रियमानसानुवर्तिनी भवति तां सेवमानः प्रियः प्रीयत एव नाम । स्नेहो हि संचाल्यमानं दारु यस्य एवंभूतः पावक इव सुप्रभो भवति, पावको हि यथा मध्येमध्ये चालितकाष्ठः सुप्रभो भवति तथा स्नेहोऽपि लघुमानादिना पुष्टः प्रवर्धत इति भावः ॥ इति ॥ ७१६ ॥ एतद्विपर्ययेण दीर्घकालीनं कोपं स्नेहनाशफलवत्त्वात् निंदति यः पुनरिति । यः स्नेहः, पुन: तु, अतिकोप: गुरुमान: पूर्व ( आ. ५२० ) व्याख्यातः, स एव अनलः अग्निः, तस्य संतापवशेन तापप्रभावात् दूरं आकृष्टः दीर्घकालं सेवितः सः, काच एव चाकचक्यात् मणिः तद्वत् खण्डखण्डं सूक्ष्मशकलरूपं परिणामं फलं उपयाति प्राप्नोति; खंडितो भवति इत्यर्थ: । काचस्य अतितापेन त्रुटि: जायते इति प्रसिद्धम् अत्रार्थे पूर्वमपि उक्तं- " अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबंधनं मूढे । ” ( आ. ६७३ ) इति । रूपकसंकीर्णः उपमालंकारः ॥ ७१७ || सहजप्रीतिविश्रंभभाजनस्य जनस्य दुर्लभत्वमाह वेतनेति । वेतनं भृतिः । सौष्ठवेन सम्यक्तया । पञ्चजना: पंचभि: भूतैः जन्यंते ते पुरुषा: । ] विश्राम्यति प्रसीदति । [ द्रव्यप्राप्तये वेश्यया बहवः पुरुषाः सेव्यन्ते, यत्र तु मनः तत्सौजन्यदाक्ष्यादिना शांतिमुपलभते तादृश: " , " ७१८ वेतन लोभा' ( प ) । स च ( प ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy