SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २४४ दामोदरगुप्तविरचितं परसन्तापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् । अन्तर्मना असाधुन गणयति तदायुषो मध्ये ॥ ७०७ ॥ दिवसांस्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् । ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ।। ७०८ ॥ विकसितवदनः पिशुनः प्रोत्फुल्लविलोचनो यथा भ्रमति । मन्ये तथा न जातः सदहितकरणश्रमो वन्ध्यः ॥ ७०९ ।। शठमृगयुः कुसृतिशरैरज्ञातप्रतिविधानसाधुमृगान् । अभ्यस्तलक्ष्यवेधो निघ्नन् न परिश्रमं व्रजति ।। ७१० ।। ( किरात १।३० ) इति ॥ ७०६ ॥ दुष्टस्य शोकदिनं कथयति परेति । अन्येषां पीडनं एव विनोद: हर्षजनकं कर्म सः, यस्मिन् दिने, निष्पत्ति निर्वत्य सिद्धि, न प्रयाति, तत् दिनं, अन्तर्मनाः दुःखितमना: खिन्नः, “ दुर्मना विमना अन्तर्मनाः स्यात् ।” इति अमर:, असाधुः दुर्जन:, आयुषो मध्ये जीवनकालदिनेषु, न गणयति, तादृशं दिवसं विधिनिर्मितस्वजीवन दिनसंख्यायां मृतस्य इव निष्फलत्वात् गणनीयं न मनुते इति भावः । अहनि इति एकवचनेन तादृशस्य अधन्यदिनस्य विरलत्वं ध्वनितम् ॥ ७०७ ॥ तस्य उत्सवदिनानि आह दिवसान् इति । अभिनन्दति समृद्धिमंतो गणयति । ये दिवसाः । उपतापः सन्ताप: तस्मिन् अभियोगेन अत्यन्ताभिनिवेशेन । दिवसान् इति बहुवचनेन तादृशां बाहुल्यं ध्वनितम् ॥ ७०८ ॥ दौर्जन्यसाफल्ये तस्य हर्षानुभावमाह विकसितेति । पिशुनः खलः, यथा, विकसितवदनः हर्षेण प्रफुल्लमुख:, प्लोत्फुलविलोचन: विकसितनेत्रः, भ्रमति लोके विचरति, तथा मन्ये तस्मात् अनुमिनोमि, यत् तस्य, सदहितकरणे सज्जनानां अहितसंपादने, श्रमः प्रयासः, वंध्यः निष्फल: न जातः इति । अनुमानालंकारः । ७०९ ॥ पिशुनानां सज्जनोपघातकत्वं रूपकालंकारद्वारा वर्णयति शठेति । शठ: 'निगूढ हिंसानिपुण:' खलः एव मृगयुः व्याधः, कुसुतयः उपजापादिकपटानि एव शराः तैः, “सृतिः स्त्री गमने मार्गे, कुपूर्वा निकृतौ सृतिः । " इति विश्वलोचनः, अज्ञातं ] प्रतिविधानं निवारणं [ प्रतिक्रिया यै: तान् साधून् सत्पुरुषान् एव मृगान् हरिणान्, अभ्यस्तलक्ष्यवेधः शरव्यघाते अभ्यासेन सिद्धहस्तः इति भावः, निघ्नन् घातेन प्राणान् हरन्, परिश्रमं न व्रजति खेदं न लभते, ७०९ 'लोचनस्तथा' (गो. का ) । मन्ये यथा नराणां परहितकरणे श्रमो वन्ध्यः ( गो. का ) [ अयथार्थः पाठः ] ७१० कुस्मृतिशत ( गो. का ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy