________________
कुट्टनीमतम् ।
२४३
प्रियमपि वदन् दुरात्मा क्षिपति विपत्सागरे दुरुत्तारे ।
आसाद्य प्राणभृतो मृतये परिलढि जिया खड्गः ॥ ७०५ ॥ हितमधुराक्षरवाणी व्यवहारमनुप्रविश्य तल्लीनाम् ।
सरला दुराशयानामुपघातफलेन विन्दन्ति ॥ ७०६॥ इति पाठः सुसंबद्धो भाति ॥ ७०४ ॥ स्वाचरणं समर्थयितुं इतः षद्धिः दुर्जनानां दुश्चरितं वर्णयति प्रियमित्यादिभिः । दुरात्मा दुष्टः आत्मा अन्त:करणं यस्य सः, "कलेवरे प्रयत्ने च स्वभावे परमात्मनि । स्वान्ते धृतौ मनीषायामात्मानं कवयो विदुः॥" इति शाश्वतः । ( स्वान्तं अन्तःकरणम् ।) दुरुत्तारे दुस्तरे । ] आसाद्येति । 'प्राणिनः आसाद्य विश्वासार्थ जिह्वया मृतिफलकखगलेहनेऽपि प्रवृत्तिं दर्शयति ।' [इति टिप्पणी। वस्तुतस्तु खङ्गः कृपाणः, प्राणभृतः प्राणिनः, आसाद्य प्राप्य, यत् , जिह्वया धारया, परिलेढि, तत् तेषां मृतये मरणाय, भवतीति शेषः, मरणमेव तक्रियायाः फलं इति भावः । उक्तं च-"स्पृशन्नपि गजो हन्ति, जिघन्नपि भुजंगमः । हसन्नपि च वेतालो, मानयन्नपि दुर्जनः ॥” इति, “को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ।" इति च ॥ दृष्टान्तालंकारः, " दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ।" इति ( काव्यप्रकाशे १०।१०२) लक्षणात् । ( एतेषां साधारणधर्मादीनाम् ।) ॥७०५॥ दुर्जनानां नीतिविदामिव फलानुमेयव्यापारत्वं प्रकटयति हितेति । दुराशयानां दुष्टः आशयः अभिप्रायः येषां तेषां दुरात्मनां, हिता श्रेयोवहा, मधुराक्षरा कर्णप्रिया, च वाणी वाक् कथनं इति यावत् तां, पुनः कीदृशी, व्यवहारं लौकिकी स्थिति, अनुप्रविश्य विषयीकृत्य, तल्लीनां तस्मिन् व्यवहारे लीनां तद्भावापन्नां व्यवहारकौशल्यज्ञापिनी इत्यर्थः, तादृशीं दुर्जनवाणी, सरलाः अकुटिलहृदया: अज्ञातवञ्चनाः, उपघातफलेन उपघात: विनाशः एव फलं परिणामः तेन विन्दन्ति जानन्ति, हितादिगुणविशिष्टानां दुर्जनवाचां परमार्थतः असाधुत्वं विनाशफलप्राप्त्या कालान्तरे बुध्यते इति तात्पर्यम् । वाणीव्यवहार तन्मानम् । मुंपघातं फलत एवं' इति पाठे ] 'मानं प्रमाणभूतं, अनु. प्रविश्य बुद्धया, तत्र प्रवृत्ताः, सरलाः ऋज्वाशयाः,' [फलतः फलतया उपघातमेव विन्दन्ति लभन्ते ] इत्यर्थः ॥ तथा च उक्तं-" को वेत्ति गुणविभागं, हस्तेन कथं परीक्ष्यते जातिः । दुर्शेयं कुटिलानां चेष्टितमन्यद्वचश्चान्यत् ॥” (समयमातृकायां ८३८) इति।भारविः अपि-"प्रविश्य हिघ्नन्ति शठास्तथाविधानसंवृताङ्गानिशिता इवेषवः।"
७०५ वदति दुरात्मा (गो. का)। खङ्गं (गो २) [अस्य श्लोकस्य कापाठः दुष्टः] ७०६ वाणीन्यवहार''तन्मानं (गो. का)। मुपघात फलंत एव विन्दन्ति (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com