________________
कुट्टनीमतम् ।
२४१
यस्यार्थे न विगणिताः प्रहात्मानो महाधनाः कुलनाः। सोऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यत्तेन ॥ ७००॥ तामेव समाचरणां सद्भावेन प्रवर्तितां निपुणाः। विन्दन्तितत्र कुशलाः स्नेहविरूपे प्रभेदेन ॥ ७०१ ॥ भवतु, विरूढप्रेम्णः सत्कर्मविवेचने मनोवृत्तिः । नारोहतीति सैवं निवेदितं पारिचित्येन ॥ ७०२ ॥
इति सूच्यते । अत्र श्लेषानुप्राणित: रूपकालंकारः । न च विषमालंकारोऽपि इति शंक्यं, " संसर्गोऽननुरूपस्य विषमं प्रोच्यते बुधैः ।" (साहित्यसारे ८।२३५) इति तल्लक्षणात्, प्रकृते च संसर्गस्य असंभवात् ॥ ६९९ ॥ स्वोपलं कामुकहृदयं निवेदयति यस्येति । यस्य कामुकस्य, अर्थे कृते, यन्निमित्तं त्वया, ] प्रह्वात्मानः आसक्त्या नम्राः, [धनवन्त: कुलीनाः च अन्ये कामुकाः, न, विगणिता: चिंतिता: आताः इति यावत् , स: तव सर्वस्वभूतः कामुकः, अद्य इदानीं, तस्यां त्वत्सपत्नीभूतायां पूर्वस्यां आर्यायां सूचितायां, हृदयेन अन्त:करणेन सत्यानुरागेण इति यावत् , तिष्ठति वर्तते; त्वयि तादृश्यां, तु, बाह्यवृत्तेन बाह्योपचारमात्रेण, न तु आन्तरस्नेहेन इत्यर्थः, तिष्ठति । " स एवान्यो जातः, सखि, परिचिताः कस्य पुरुषाः ।" ( अमरुकशतके ९४ ) इति भावः । 'तस्यास्त्वयि' इति पाठे तस्या: नव्यायाः, हृदयेन मत्यनुसारेण, इत्यर्थः ॥ ७०० ॥ ननु तस्य हृदयं त्वया कथं ज्ञातं इति शंकां बुद्धिनैपुण्येन इति अपनुदति तामेवेति । यत्तदोनित्यसंबंधात् यां इति आक्षिप्यते । यां सद्भावेन प्रेम्णा प्रवर्तिता, समाचरणां आचारं विलासादीनामप्युपलक्षणं, निपुणाः विदंति जानंति, तामेव ता. शीमेव इत्यर्थः, स्नेहविरूपे प्रेमविपर्यये जाते सति, प्रभेदेन पूर्वाचरणेभ्यो भिन्नतया प्रव । तितां समाचरणां, तत्र कुशलाः इंगितज्ञाः इत्यर्थः, विन्दन्ति । सौहार्दात् अन्यथा वा प्रवर्तितानां समानाकाराणां अपि आचाराणां भेदः कुशलैः शीघ्रं गृह्यते । एवं त्वां प्रति पूर्ववत् बाह्यसमाचारेऽपि तदीयं हृदयं मया ज्ञातं इति भावः॥७०१॥एतत्कथने स्वप्रवृत्ती
७.० यस्या न खलु विगणिताः (गो. का)। तस्यास्त्वयि (प)७०१ तासां वा समाचरणं सदसद्भावप्रवर्तितं निपुणैः। विन्दन्ति नात्र कुशलाः स्नेहेन विरक्षमेदेन ॥ (१) ७०२ 'प्रेम्णा तत्कर्मविवेचनं (प)। नास्तीति मयेवं (प) मारों (का)। दितं परिजनेन (.."का) परिचयेन ( कापा)
१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com