________________
कुट्टनीमतम् ।
अविदितगुणान्तराणां नो दोषः प्राप्तदेशवासानाम् ।
स्वाधीनकुडमा अपि यद्विदधति बहुमति नीले ॥ ६९८ ॥ कोमलत्वं द्विविध, तत्र शब्दकोमलत्वं बंधस्य अपरुषत्वं, अर्थकोमलत्वं परुषेऽप्यर्थे अपरुषत्वं, तदुभययुक्तं अतिकोमलं; अतिपरिमितवर्ण प्रमिताक्षरं अल्पाक्षरं; लघुतरं अतिमनोश, “लघुर्मनोशनिःसारागुरुलघुषु वाच्यवत् । पृक्कायां स्त्री, लघु क्लीवं कृष्णा. गुरुणि सत्वरे॥” इति, मनोज्ञत्वं मधुरत्वं द्विविधं शब्दगतं अर्थगतं च, तत्र शब्दमधुरत्वं पृथक्पदत्वं, अर्थमधुरत्वं च उक्तिवैचित्र्यं, एतद्वाग्गुणयुक्तं वचनं सजनोदाहृतितुल्यं इति भावः,उदाहरति वदति। पुनः इति त्वर्थे भेदे तु,सः शठः,परमार्थतः तत्त्वत: हृदयं दहति मनः संतापयति। निदर्शनालंकारः। तस्य दाहकत्वं उत्प्रेक्षते कालेति । कालकूटः महाविषं शृंगवेरकोंकणमलयदेशसंभवं अश्वत्थसंनिभो निर्यासः, यद्वा कालकूटं समुद्रमथनसंभवं विषं, कालकूटकापरनामकं विषतिदुकं एताभ्यां भिन्नं उपविषत्वात् , तेन कालकूटेन, घटितः रचितः निर्मितः, इव उत्प्रेक्षायां; सर्वेषां विषानां शरीरदाहजनकत्वं प्रसिद्धम् । उक्तं च-" मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥” इति । अत्र हेतूत्प्रेक्षालंकारः । अनेन त्वत्प्रियः “विषकुंभः पयोमुखः ।" प्रच्छन्नदुर्जनः इति सूचितम् ॥ इयं गीतिः काव्यप्रकाशे सप्तमोल्लासे पदैकदेशगतस्य अश्लीलदोषस्य उदाहरणाय उद्धृता । तत्रत्यपाठभेदास्तु-'अतिपेलवमति० हृदयं वहति० घटितमिव ॥' इति । " पेलवं कोमलं, लघुतरं अतिमंदं सत्यत्वप्रत्यापनाय... । तथा च कृत्रिम तया तद्वाक्यमश्रद्धेयमिति भावः ।" इति काव्यप्रकाशबालबोधिनीटीकायाम् । अत्र ' पेलव ' शब्दस्य लाटभाषायां वृषणरूपगुह्यांगबोधनतया तदर्थस्मरणेन तत्पदं वीडादायि इति अश्लीलपदत्वं दोषः इति विचारितम् । उपलब्धसर्वप्राचीनपुस्तकेषु ' अतिकोमलं' इति पाठस्यैवोपलब्धेः नात्र उक्तदोषावकाशः; ' पेलवं । इति पाठेऽपि देशविशेषभाषायां प्रसिद्धस्यार्थस्य संस्कृतभाषायां तादृशार्थबोधानुत्पत्तेः न तत्प्रयोगस्य दोषवत्वं इति बोध्यम् ॥ अपि च पूर्वोक्तटीकायां " मित्रं प्रत्याप्तस्योपदेशोक्तिरियम् " इति अस्या अवतरणं दत्तं, तदपि एतन्मूलस्थानानवबोधमूलम् ॥ ॥ ६९७ ॥ न केवलं वाचि शठः, क्रियायामपि, इति द्योतयन् , तस्य परासक्तत्वे त्वत्सपत्न्याः न कोऽपि दोषः प्रत्युत तस्यैव इति सूचयितुं वक्ति अविदितेति । अविदितगुणांतराणां अज्ञातगुणाधिकपदार्थान्तरगुणानां इत्यर्थः, प्राप्तः अपरस्मिन् ___६९८ को दोषः (प) नोदेशः (कापा)। षप्रातदेश (५)। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com