________________
२३८
दामोदरगुप्तविरचितं
येन तदा मामूचे परिजनमुत्सार्य विवृतनवमन्युः । दर्शितहितस्वरूपः परपीडाकरणपण्डितः मखलः || ६९६ ॥ अतिकोमलमतिपरिमितवर्ण लघुतरमुदाहरति शठः । परमार्थतः स हृदयं दहति पुनः कालकूटघटित इव ।। ६९७ ॥
वैदग्ध्येन पिबन्ति ॥ अत्र दीपकं अलंकार:, प्रस्तुतदुर्जनानां अप्रस्तुत हंसानां त्र पृथक्करणशक्तिरूपधर्मस्य सकृदुपादानात्, 66 सकृद्वृत्तिस्तु धर्मस्य प्रकृता प्रकृतात्मनाम् । " इति ( काव्यप्रकाशे १० । १०३ ) तल्लक्षणात् । अत्र औपम्यं गम्यं, तत्रापि हीनानां दुर्जनानां उत्तमै: हंसै: सह गम्यौपम्येन व्याजस्तुतिः ध्वनिता; यथासंख्यालंकारश्च, “ यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः । 99 (801806) इत्यपि तत्रैव; “ बहुवचनस्य अतन्त्रत्वात् द्वयोरपि यथासंख्या भवति " इति काव्यालंका टीकायां नमिसाधु: ( ७ | ३४ ) ॥ - अत्र प्रसंगात् केषाञ्चित् गम्यौपम्यालंकाराणां स्थूलतया विवेकः प्रदर्श्यते - तथाहि, निदर्शनायां अभवन् वस्तुसंबंध ः बद्धयते; अप्रस्तुतप्रशंसायां अप्रस्तुतस्य कथनेन प्रस्तुतं आक्षिप्यते; यदि तत्रैव अप्रस्तुतं अपरं -समाक्षिप्येत तदा समासोक्तिः प्रतिवस्तूपमायां सामान्यधर्मः शब्दान्तरैः पुनरुक्तो - भवति; दृष्टान्ते सामान्यधर्मादीनां उपमाङ्गानां बिंबप्रतिबिंबभावेन ख्यापनं, न कस्यापि - शब्दान्तरेण; दीपके प्राकरणिकानां अप्राकरणिकानां च धर्मः एकवारं एव उपादीयते; तुल्ययोगितायां तु प्रस्तुतानामेव अप्रस्तुतानामेव वा धर्मः एकवारं इति ॥ ६९५॥ 'पूर्वोक्त प्रस्तुते घटयति येनेति । येन यतः दौर्जन्यात् इति भावः, तदा तस्मिन् काले, आवयोः प्रणयस्य स्थैर्ये जाते इति भावः, परिजनं सेवकादिकं, उत्सार्य कार्यनियोगा-दिव्याजेन दूरीकृत्य, निर्जने इति भावः विवृतनवमन्युः प्रकटीकृता भूतपूर्वशोकः, तव हीयमानरागस्य प्रकटीकरणे इव इति भावः ; दर्शितहितस्वरूपः प्रकाशितसुहृद्भाव:, मां दयमान इव इति भावः, दर्शित इत्यनेन तस्य कृत्रिमत्वं व्यज्यते, तदेव प्रकटयतिपरपीडेत्यादि, अन्यसौख्यनाशप्रवीणः इत्यर्थः, प्रखल: प्रकर्षेण खलः पापः दुर्जनशि-रोमणिः इत्यर्थः । “पंडितः प्रथमः' इति पाठे प्रथमः प्रधानः, एतत्पाठः अर्थपर्यालोचने ''पंडितप्रथम:' इति भवितुं युक्तः, तदर्थश्च तादृशेषु प्रथमः आद्यः अग्रगण्यः इति, एवं वक्ष्यमाणं ऊचे अवदत् ||६९६ || तदुक्ति षङ्केन अनुवदति । तत्रादौ सः शठोक्तीनां स्वरूपं परिचाययति अतीति । शठः कपटपटुः वञ्चकः, अतिकोमलं - शब्दार्थाभ्यां
-
६९६ विधृतनटमन्युः ( गो . का ) । पण्डितः प्रथमः ( गो. का ) ६९७ वहति पुनः कालकूटघटितमिव ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com