________________
कुट्टनीमतम् ।
क्षित्वाऽतर्कितमम्भो गर्भितनलिनीपलाशपुटभावात् ।
आहतया यद्विरुतं स्वस्थधिया नैव शक्यते कर्तुम् ॥ ६९१ ॥ मुश्लिष्टो हावविधिर्मदनालसगात्रजृम्भितं ललितम् ।
गूढस्थानप्रकटनमङ्गुलिविस्फोटनं, स्मितं सुभगम् ॥ ६९२ ॥ पुरुषवीर्यस्य स्त्रीकामसलिलस्य वा स्यन्दनकाले ।) ६९०॥ क्षिप्त्वेत्यादिना चकितस्य प्रसंगं स्मरति । गर्भितात् अंभसा जलेन इति पूर्वपदात् लभ्येन, नलिन्याः कमलिन्याः पलाशानां छदनानां पत्राणां, "पलाश: किंशुके शठ्यां पलाशो निकषात्मजे । क्लीबं पलाशं छदने, पलाशो हरिति त्रिषु ॥” इति विश्वलोचनः; यः पुटभाव: संपुटं, यद्वा पुटः आधारपात्रं द्रोण: 'पडीआ' इति भाषायां, स एव भाव: पदार्थः तस्मात् , प्रियेण अतर्कितं क्रियाविशेषणं सहसा इत्यर्थः, यतः पुटगर्भितत्वात् अदृष्ट, अंभः जलं, क्षिप्त्वा आहतया अभिहतया, यत् विरुतं भयेन चीत्कृतं, तत् स्वस्थधिया पुनः शान्तस्थितौ इति भावः, कर्तुं नैव शक्यते ॥ 'पटवासः' इति पाठे] 'पटवासश्वर्णद्रव्यविशेषः, “पिष्टातः पटवासकः" इत्यमरः [इति टिप्पणी । तत्र पञ्चम्यंतत्वं चिन्त्यम् ॥ अत्र त्रास: संचारिभाव: “ निर्घातविद्युदुल्काचैत्रास: कंपादिकारकः । " (३।१६४) इति साहित्यदर्पणे लक्षितः । तेन चकितं नाम नायिकालंकारश्च, "त्रासेन लजया वाऽपि निजवल्लभसन्निधौ । संभ्रमातिशयो यस्तच्चकितं सूत्रकृन्मते ॥” इत्युक्तः । (सूत्रकृत् नाट्यशास्त्रकर्ता भरत:, सूत्रशास्त्रशब्दयोः कामसूत्रादिशब्देषु अर्थपर्यायत्वदर्शनात् । ) ॥ ६९१ ॥ इत: ७३३ आर्यापर्यंत ४२ आर्यामिः कोशेषु अनुलिखितमपि महाकुलकम् । तत्र " सुश्लिष्टो हावविधिः ॥ इत्यारभ्य " रतोत्सुकता " ( आ. ६९३) इत्यन्तं प्रथमान्तशब्दाः, तत: " एकीभावं" (आ. ६९५) इत्यारभ्य " प्रेष्यभावेन " ( आ.७३१ ) इत्यन्तं संगृह्य " इति शोकप्रस्तवर्णगिरः” ( आ. ६९४ ) इति प्रथमान्तपदं, तानि सर्वाणि "इति नेत्रादिविकारैः” (आ. ७३२) इत्यनेन अन्वीयन्ते इति बोध्यम् ॥ हावविधिरित्यादयः रतोत्सुकतेत्यन्ताः पदार्थाः (अनुरागप्रकाशकाः ) रक्तानुरागेंगितानि, तानि च पूर्व (आ. ६३०) विस्तरेण उक्तानि, तत्प्रयोगाश्च आकर्षणवशीकरणयोः साधनानि इति विज्ञेयम् ॥ सुश्लिष्टः सम्यग्युक्तः, हावविधिः हावानां प्रयुक्तिः, हावः पूर्व (आ. ४७७) विस्तरेण व्याख्यातः । ललितं सुन्दरं नयनानन्दकरं, मदनेन कामेन लक्षणया तदावेशेन
६९१ पलाशपटभावात् (गो. का) पुटसारात् (प) पटवासात् (गो २) यद्विकृतं (प)। धिया तन (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com