________________
दामोदरगुप्तविरचितं सादरमर्पयतोऽब्ज गोत्रस्खलनापराधिनस्तस्य । सख्यः स्मरामि सहसा विलक्षताक्लिष्टहसितस्य ॥ ६८९ ॥ प्रत्यग्रनखव्रणितस्तनान्तरे क्षिपति लोचने स्पृहया । प्रेयसि तच्छादनकमकरवमहमब्जिनीपत्रम् ॥ ६९० ॥
सादरमित्यादिना तस्य प्रच्छन्नकामुकत्वस्य निरावरणप्रसंगमाह । मह्यं, सादरं मानपुर:सरं अन्जं कमलं, अर्पयतः ददतः, स्वप्रेमप्रकाशनाय इति भावः, तस्मिन् काले गोत्रस्खलनापराधिनः गोत्रे नाम्नि स्खलनं विस्खलितं मन्नाम्ना संबोधनस्थले अपरस्याः नूतनप्रेमास्पदीभूतायाः नामग्रहणं, तेन अपराधिनः दोषवतः, अत एव सहसा तत्कालं, सपत्नीनामग्रहणेन विलक्षतया लजया, क्लिष्टं क्लेशेन निर्वृत्तं, हसितं,-" विकासितकपोलान्तमुत्फुल्लामललोचनम् । किञ्चिल्लक्षितदन्ताग्रं हसितं तद्विदो विदुः ॥" इति लक्षितं, यस्य, तस्य प्रियस्य, सखी प्रत्युक्तेः तस्येति पारोक्ष्येण उक्तिः, अत्र तस्येत्यादिकं सर्व कर्मषष्ठयन्तं; तादृशं तं उत्कण्ठापूर्वकं स्मरामि स्मृतिपथमुपनयामि इति भावः ॥ ६८९॥ प्रत्यग्रेत्यादिना स्वस्याः मुग्धात्वलीलाप्रसंगं प्राह । प्रेयसि प्रियतमे, प्रत्ययं नूतनं प्रथमं यथा स्यात् तथा, व्रणितपदस्य क्रियाविशेषणं इदं; नखेन व्रणिते क्षते स्तनयोः अन्तरे मध्यभागे, अर्धचंद्राख्ये नखक्षते कृते इत्यर्थः, तादृशे, स्पृहया तद्रामणीयकदर्शनतृष्णया, लोचने नेत्रे, क्षिपति व्यापारयति सति, अनेन सस्पृहो नाम दृग्विकारो विवक्षितः, तल्लक्षणं तु-"भूयोभूयः स्पृहा यत्र दृष्टेस्तत्सस्पृहं भवेत् ।" इति; तच्छादनकं नखक्षतालंकृतस्तनान्तरापवरकं, अहं, अब्जिनीपत्रं हस्तव' तिलीलाकमलदलं, अकरवं, शृंगारलजाख्यव्यभिचारिभावोद्गमेन इति भावः । 'व्हीताइति पाठे 'लजिता', 'हृताच्छादनकं' इति पाठे कमलपत्राणां विच्छेदनं इति चार्थः। अत्र यथास्थितपाठे मात्रान्यूनत्वं, पाठान्तरेषु च यतिभंगः, अतः शुद्धः पाठो मृग्यः । 'प्रेयसि तस्याच्छादनमः' इति पाठे कृते उभयदोषवारणं स्यात् । मुग्धात्वेन लजावशात् वर्णितप्रकारेण हर्ष जुगोप इति भावः । तेन अत्र अवहित्थाख्यः संचारिभावोऽपि, तदुक्तं"अवहित्था तु लजादेहर्षाद्याकारगोपनम् ।" इति । नखक्षतकालास्तु-"माने नवीनसुरते विरहे प्रवासे । द्रव्यक्षयेऽथ विरतौ च मदे प्रयोज्याः ।" इति, (द्रव्यक्षये
६८९ तोऽहं ( गो २ का)। विलक्षतां (गो.) विलक्ष्यतां (का)। धृष्टहसितस्य (गो. कापा)कृष्टह (कापा) ६९० हृताच्छादनम (गो२)हीताच्छादनमक (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com