________________
कुट्टनीमतम् ।
कालप्रदेशवेषव्यापारस्थितिविशेषघटनाभिः । चिररूढोऽपि हि यूनां नवत्वमुपनीयते रागः ॥ ६८८ ॥
२३३
-
"
संसक्तं अत्यन्तसंश्लिष्टं अंगलग्नं, तत्र हेतु: आर्द्रमिति, आर्द्र जलकिन्नं आवरणं वस्त्रं यत्र, तादृशं, अतः व्यक्तं स्फुटतया परिदृश्यमानं इति फलितं, घनं जघनं तदा पश्यतः, तृचा नैरन्तर्य अभिप्रेतं, तेन नायकस्य हर्षो व्यञ्जितः, (तदुक्तं – “स्निग्धाया दृष्टेरविच्छेदपातो हर्षकार्यम् । " इति नागानन्दविमर्शिन्याम् ; ) तेन च विकसितं इति विस्तारि इति वा दृष्टिविकारो व्यञ्जितः, तौ च "विकसितं यद्विषये विशेषमवगाहते । " इति, " येनाश्लिष्टो हि विषयस्तद्विस्तारीति कथ्यते । " इति लक्षितौ । एवं रमणीयदर्शनास्वादजन्यं आनन्दं अनुभवतः इति भावः, तस्य, प्रथमाकांक्षाकूतं प्रथमं प्रधानं आकांक्षाया: अभिलाषस्य आकूतं आशयः, कर्तृ, संभोगशृंगारं कर्म, संभोगाख्यः यः शृंगारः रसविशेषः, संभोगश्च –“ कामोपचार : संभोगः कामः स्त्रीपुंसयोः सुखम् । सुखमानन्दजं भेदं परस्परविमर्दतः । उपचारस्तथाऽऽनन्दकारकं कर्म कथ्यते ॥ अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि संभोग: स उदाहृतः ॥” इति रसिकजनमनोल्लासिन्यां उक्तः, तं भेजे सिषेवे । तथाहि - "पाञ्चाल्या: पद्मपत्राक्ष्याः स्नायंत्या जघनं घनम् । याः स्त्रियो दृष्टवत्यस्ताः पुंभावं मनसा ययुः ॥ इति न्यायेन कैमुत्येन तादृशजघनदर्शनं तस्य संभोगप्रवृत्तौ परिणतं इति भाव: । ] 'आकूतं चेष्टाविशेष:' [ इति टिप्पणी । अत्र जाति: अलंकारः हेत्वलंकारश्च ॥ ६८७ ॥ कालेत्यादिना पुराणोऽपि रागः यथा नवोनवो भवति तत्प्रकारं सूचयन्ती पूर्वार्योक्तं समर्थयति । विशेषेण विशिष्टतया असामान्यतया विलक्षणतया इति यावत् या घटना रचना, ताभिः ताः केषां इति परिगणयति कालेत्यादि, कालः वसन्तवर्षादिसमयः, प्रदेश: उद्यानादिविहारदेश: विविक्तभिन्नस्थलं वा, वेषः श्लक्ष्णवस्त्रकंचुलिकादिरूपतत्तदृतूचितपरिधानादिधारणं, व्यापारः शृंगारचेष्टा, स्थिति: अवस्थानं अंगादिनिक्षेपरूपं, तेषाम् । चिररूढोऽपि वृद्धः पुराणोऽपि, राग: प्रीतिः स्नेहः, यूनां, नवत्वं अभूतपूर्वत्वं दर्शनीयत्वं, उपनीयते । अनया "क्षणक्षणं यन्नवतामुपैति तदेव रूपं रमणीयतायाः । " ( शिशुपालवधे ४|११ ) इति माघलक्षितरमणीयता - संपादनप्रकारः प्रकाशित:, तेन च तादृशघटनाभिः आरंभावस्थस्य नूतनस्य इव स्नेहस्य अनुभावकतया कामुकस्य नष्टरागप्रत्यानयनं निश्चयेन भवति इति बोधितम् ॥ ६८८ ॥
""
,
६८८ प्रदेशभोगं (गो. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com