________________
२३२
दामोदरगुप्तविरचितं अस्मिन् सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः । दयितेन ताडिताऽहं, मयाऽप्यसावाहतो मृणालिकया ॥ ६८५ ॥ पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा । उचिक्षेप सहासं हासितसन्निहितपरिवारः ॥ ६८६ ॥ संसक्ताद्रावरणं जघनं ननु पश्यतस्तदा तस्य ।
प्रथमाकाङ्क्षाकूतं भेजे संभोगशृङ्गारम् ॥ ६८७ ॥ नितरां अतिशयेन, न अर्हसि योग्यो नासि । चतुरिन्द्रियतर्पकं उपवनं त्यक्त्वा एके. न्द्रियमात्रतर्पकं अन्यत्स्थानं गन्तुं न युक्तं इति भावः । यद्वा काचित् मिष्टान्नभोजनप्रियतया इन्द्रियसंतपकं उपवनं त्यजन्तं अचतुरं प्रियं तथाकरणे जनोपहास्यता सूचयंती प्राह रसनेति । जनेन परिभूत: लोकः अवमानितः तथाविधरामणीयकनिधि स्थलं त्यक्तुमना इति ॥ इति समाप्तं द्वादशभिः उपवनविहारे तरुणीवचनकुलकम् ॥ ६८४ ॥ इतः त्रिभिः तत्रत्ये सरसि जलक्रीडायाः स्मरणं अभिनयति अस्मिन्नित्यादिभिः। करः एव यन्त्रं जलनिक्षेपार्थ · पिचकारी । इति भाषायां 'शङ्ग, इति च संजितं, तस्मात् विनिर्यद्भिः निःसरद्भिः । अम्बु जलम् । दयितेन प्रियेण, सलील सविलासचेष्टितं, यद्वा 'लीला नाम अपांगव्यापारेण अभीष्टार्थानुकरणं' तेन सहितं यथा स्यात् तथा, ताडिता वक्षःस्थले इति गम्यम् । व्यत्यस्तहस्ततलयोः मध्यं जलेन पूरयित्वा करतलनिष्पेषे जलं उच्चैः उच्छलति इति तरणकलावित्सु प्रसिद्धम् । मृणालिकया अल्पपद्मनालेन, असौ आहतः प्रतिताडित: " कृते प्रतिकृतं कुर्यात् " इति कामशास्रनीत्या । अनेन स्वस्या: प्रगल्भात्वं सूचितम् । अयं क्रियाविषयः परिहासः (भा. ४६२ व्याख्यातः ।) ६८५ ॥ अन्यं अनुभूतं जलक्रीडाविशेष प्रकाशयति पुनरिति । पुनः अन्यच्च, जलमध्ये निमज्ज्य, अविभावितः अलक्षितः क गत इति, सहसा तत्कालं, मामुपगम्य जलान्तर्हित एव समीपं आगत्य, अविभावित: मया अलक्षितः अज्ञातः, सहासं, उच्चिक्षेप, स्वमिति शेषः, मन्निकटे एव जलाबहिर्गतोऽभूत् ; मां इति शेषे तु निमज्ज्य मन्निकटे अतर्कितागतः मां, सहसा झटिति, हस्तयोः धृत्वा अपसारयामास इति भावः । कथं, हासितेत्यादि । ] परिवारः सखीजनः । [नायिकावञ्चनेन सखीजनस्य हास: नायिकाविषयकोपहासात्मकः । अत्र युक्तिरलंकारः, पूर्ववच्च क्रियाविषयः परिहासः । ' सहसा ' ' सहासं ' ' हासितसन्निहित ' इति पदैः वृत्त्यनुप्रासः शब्दालंकारः ॥ ६८६ ॥ संसक्तेत्यादिना स्नानोत्थविच्छित्तिविशेषफलं वर्णयति ।
६८७ जघनं मम (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com