________________
कुट्टनीमतम् ।
नो पश्यसि यदि ककुभः प्रचुरोद्दल कुसुम सुरभिरमणीयाः । परभृतकूजन मिश्रं न शृणोषि यदि द्विरेफझङ्कारम् ॥ ६८२ ।। गन्धं यदि च न लभसे वासितदिग्व्योम सुमनसां हृद्यम् । अनुभवसि यदि स्पर्श नो शीतलदाक्षिणात्यपवनस्य ।। ६८३ ॥ रसनेन्द्रियैकशेषः परसंचार्यो जनेन परिभूतः । नार्हसि ततोऽपि मुक्त्वा निजाश्रमं गन्तुमन्यतो नितराम् ॥ ६८४ ॥ ( कुलकम् )
२३१
पूर्ण: तूण: आश्रयः भिन्नभिन्नः शरीरावयवः तत्तद्धारणस्थानानि यस्य सः इति वा, अभवत् । एव अवधारणार्थः । कुसुमेत्यादिविशेषणस्य साभिप्रायत्वात् परिकरालंकारः । संदेहालंकारोऽपि, " संदेहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः । " ( १० / ३५ ) इति साहित्यदर्पणे तल्लक्षणम्, शुद्धोऽयम् ॥ ६८१ ॥ नो पश्यसि - इत्यादि विशेकेण काचित् मिष्टान्नाहारनिमित्तेन अपरया स्वगृहं अपन्हियमाणं पतिं दृष्ट्वा तं उपालभते । यथा अत्र उपवने तथा तद्गृहे यदि ककुभः दिशः प्रचुराणि बहूनि उद्दलितानि विकसितानि कुसुमानि तेषां सुरभि: सुगंध: तैः रमणीयाः, अर्थात् कुसुमितवृक्षालंकृताः दिशो यदि दृष्टिगोचराः न भवेयुः, अनेन तैजसचक्षुरिन्द्रियतर्पणाभावः सूचित: । परैः काकैः भृता: पुष्टाः परभृताः कोकिला: तेषां कूजनैः पञ्चमध्वनिभिः मिश्र संकीर्ण, यदि, द्विरेफाणां द्वौ रेफौ यत्र सः भ्रमरः तेषां, झंकारं झंकार इति भ्रमरस्वरानुकरणं, तं गुंजनं, तत्र न शृणोषि कर्णगोचरीकरोषि अनेन आकाशगुणक श्रोत्रेन्द्रियतर्पणाभावः सूचितः ॥६८२ ॥ वासितदिग्व्योम सुरभीकृताशांकाशं हृद्यं मनोज्ञं सुमनसां पुष्पाणां, गन्धं सुवासं, यदि न लभसे न प्राप्नोषि, अनेन पार्थिवघ्राणेन्द्रियतर्पणाभावः सूचितः । अपि च यदि मलयाचलोद्भूतचन्दनवनसंपर्केण शीतलस्य, दाक्षिणात्यस्य दक्षिणदिग्भवस्य, पवनस्य स्पर्श नो अनुभवसि, अनेन वायवीयस्पर्शेन्द्रियतर्पणाभावः सूचितः ॥ ६८३ ॥ ततोऽपि एवं चतुरिन्द्रियविषयाभावे सति, ] रसनेति केवलं जिह्वापरायणः इत्यर्थ:, [जनेन अपरया इत्यर्थः, परिभूत: अभिभूतः विह्वल:, अत एव ] परसंचार्यः पराधीनः; [ निजाश्रमं प्रकृतं उपवनं, स्वरूपं विश्रामस्थानं च इति सूचितं; मुक्त्वा परित्यज्य, अन्यतः अन्यत्र अन्यमिति वा, उभयत्र सार्वविभक्तिक: तसिः, गन्तुं,
"
६८२ मिश्रान्न (१) । झंकारान् (प) ६८३ यदि नो लभसे ( 9 ) | सांवृत्तं ( प ) ६८४ वसने स्त्रियैकशेषः खलसंचार्यो गुणेन परिभूतः ( गो . २ का ) । नार्हसि तदिति त्यक्तो ( गो . का ) । निजाश्रयं ( १ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com