________________
२२८
दामोदरगुप्तविरचितं धिक्तारण्यमकान्तं, धिक्कान्तं यौवनेन रहितं च । धिक्तद्द्यमपि मन्मथशास्त्रविकास विना सुरतम् ॥ ६७८॥ जनितोऽप्यपराधशतैर्वामे तस्मिंश्चिरमरूढोऽपि ।
अधिगतमधुना सख्या न वसन्तमतीत्य वर्तते मानः॥ ६७९ ॥ धिगित्यादि काचित् सुरताय विलासिनी: प्रोत्साहयन्ती सर्वश्राव्यं आक्षेपगर्भ वचनं प्राह । य: काम्यते स कान्त: प्रियः, न विद्यते कान्त: यत्र तत् अकान्तं प्रियेण हीनं विप्रयुक्तं वा, तादृशं स्त्रिय: तारुण्यं तरुणीभावः, तथा च नागरसर्वस्वे-"बालेति गीयते नारी यावत् षोडशवत्सरम् । तत: परं च तरुणी सा यावत्रिंशतं भवेत् ॥ तदूर्ध्वमभिरूढा स्याद्यावत्पंचाशतं पुनः । वृद्धा ततः परं ज्ञेया सुरतोत्सववर्जिता || " ( १६।२-३ ) इति । ( तरुणी योग्या इति भोग्या इति च संशिता । अभिरूढा 'अधिरूढा' अतिरूढा' प्रौढा । तत् तारुण्यं, धिक् निंदार्थे निष्फलार्थत्वे वा अव्ययम् , “धिग्भर्त्सने च निंदायां निष्फले कुत्सितेऽपि च । " इति विश्वः । कान्तोऽपि पुन: यदि यौवनेन रहित: बालो वृद्धो वा, तमपि धिक्, तादृशस्य सुरते ष(श)ण्ढवत् वृथात्वात् । सकान्तं युवतितारुण्यं, सतारुण्यं कान्तं च, द्वयमपि मिलितं धिक्, यदि, मन्मथशास्त्रं कामशास्त्रं तात्स्थ्येन तदुपदेशाः इत्यर्थः, तेषां विकास: प्रकाश: दीप्ति: वा तत्प्रयोगै: यत्र तादृशं, सुरतं सुष्टु रतं रमणं यत्र तत् निधुवनं मिथुनकर्म, न तत्र भवेत् । युवतीनां तारुण्यं सकान्तत्वं द्वयमपि विशिष्टसुरतं विना व्यर्थ निंद्य च इति भावः । अनेन विषयानन्दसिद्धयाः तारुण्यं सतरुणकान्तत्वं कामशास्त्रानुसारि सुरतं चेति त्रयमपि समुच्चयेन कारणं इति सूचितम् । तदुक्तं शृंगारदीपिकायां-"नारीविहीनशयनं, नवपञ्चबाणशास्त्रैर्विहीनसुरतं, रसहीनवाणी । लजागुणप्रियवियुक्तवराङ्गना चेत्येतानि षण्ढरतवत्सततं वृथा स्युः ॥ "(११५) इति ॥ प्रस्तुते समुचितं आद्यद्वयं समुच्चितं, तत्र तृतीयस्य पूरणेन जीवनं सफलत्वं व्रजतु इति वदन्त्या व्यजितम् ॥ विनोक्तिः अलंकारः, तल्लक्षणं च-" विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते ।" (५८) इति कुवलयानन्दे, पूर्वार्धे एकावली च ॥ यद्वा, तारुण्यं पुरुषस्य त्रिय: वा, अकान्तं यथासंभवं कान्तया कान्तेन वा रहितं, धिक् ; कान्तं प्रियरूपं प्रियारूपं वा वस्तु, अतरुणं सत् धिक् इत्यप्यर्थः ॥ ६७८ ॥ जनित इत्यादि गुरुमानवतीं प्रति सख्युः साश्चर्यमुक्तिः । तस्मिन् प्रिये, विषयसप्तमी, मानः 'प्रेमलडितं, ' व्याख्यातश्च स: ५२० आर्या
६७८ मन्मथसामर्थ्यविकासिनं विना सुरभिम् (प) ६७९ मिस्तस्मि (प)। भवमतमधुना सख्यो न वसंतमतीत्य (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com