________________
कुट्टनीमतम् ।
रम्यं कुसुमस्तबकं कुरु मे प्रिय कैङ्किरातमवतंसम् । तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥ ६७६ ॥ आस्तामास्तामेतत् प्रापय मां सिन्दुवारमभिरामम् । नहिनहि, राजति सुतरां चूतद्रुममञ्जरी कर्णे ॥ ६७७॥
जीवनस्य, सारः स्थिरांशः; रति: सुरतं, तस्य भोगः सेवनं, स एव रस: रस्यते स्वाद्यते इति रस: भोग्यपदार्थः, स एव अमृतं पीयूषं तद्वदाह्रादतृप्तिकरत्वात् , तस्य स्वादः आस्वादनं अनुभूतिः, द्विविधसुरतसेवनं इति तात्पर्यम् । सुंदरि रूपलावण्ययुक्ते, यद्वा "प्राप्ते तु षोडशे वर्षे सुन्दरी सुन्दरी भवेत् ।" (८।२९२) इति साहित्यसारवचनात् त्यक्तबालाभावे प्राप्तोपभोगक्षमवयस्के वा इत्यर्थः ॥ अत्र साराभासः, उत्कर्षस्य शृंखलाकटकवनिर्धारणाभावात् , यथोक्तं नमिसाधुना काव्यालंकारटीकायां (७९६ )"सर्वत्र हि संपूर्णलक्षणाभावे आभासत्वं कविभिर्व्यवस्थापितम् । " इति, परिसंख्यालंकारो वा॥ ६७५ ॥ रम्यमित्यादि युग्मं स्वाधीनपतिकाया: प्रगल्भायाः प्रणयिनं प्रति मण्डनवाञ्छया सविलासं आदरगर्भ निगदितम् । कैंकिरातं किंकिरातस्य इदं, "किंकिरात: किंकिराट: पीतकः पीतभद्रकः । हेमगौरो विप्रलंबी षट्दानंदवर्धनः ॥” इति सोढल:, 'रामबावल' 'सुरंगी' इति वा प्रसिद्धः वृक्षः । कुसुमस्तबर्क पुष्पगुच्छं, अवतंसं कर्णभूषणं, कुरु । "स्त्रीणां मनश्चञ्चलं" इति प्रसिद्धनीस्वभावत्वात् तस्य अनादरं कुरुते तिष्ठतु वा किमनेन इत्यादि । अपरत्र चारुत्वबुद्धया तं याचते प्रत्यग्रेति । प्रत्यग्रः नवजात:, अशोककिसलय: व्याख्यात: पूर्व (६७१ आ.) तं, अवतंसं कुरु तेन कर्ण भूषय; तथाहि मालविकामिमित्रे (३) मालविका प्रति बकुलावल्युक्ते: छाया-" एषोऽशोकशाखावलंबी पल्लवगुच्छ:, अवतंसय तावदेनम् ।" इति ॥ ६७६ ॥ पुनः पूर्वोक्तन्यायेन तं निषेधति आस्तां इति, बलवत्प्रतीत्यै द्विरुक्तिः । अवतंसाय अपरं प्रार्थयते प्रापयेति । सिन्दुवारः 'सिन्धुवारः । इत्यपि शब्द: 'निर्गुण्डी' 'नगोड' इति वा प्रसिद्धः वृक्षविशेषः, तत्पुष्पमपि सिंदुवारः, सिंदुवारशब्दात् "पुष्पमूलेषु बहुलम्" इति वार्तिकात् (पा. ४।३।१६६) विकारावयवप्रत्ययस्य लुपि सिंदुवारशब्दः तत्पुष्पवाची अपि, तं इत्यर्थः । वसंततिलकायमानां आम्रमंजरी अवलोक्य सिन्दुवारपुष्पं उपेक्षते नहिनहि इति, माऽस्तु तत् । मञ्जरी 'मञ्जरिः' इत्यपि शब्द:, मंजु मनोज्ञतां राति ददाति इति मञ्जरी अभिनवनिर्गता आयता सुकुमारा अकुसुमा च मञ्जरी, ( सैव चिरभूता वलरिः इति उच्यते।) सुतरां अतिशयेन, राजति शोभते, अत: तामेवानीय मत्कणे कुरु इति सूचितम् ॥ ६७७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com