________________
दामोदरगुप्तविरचितं
विस्तारितमिव चेदं कर्पूरमञ्जरीसट्टकस्य तृतीये जवनिकान्तरे राज्ञ: विदूषकस्य च संवादे (छाया)-" विदूषकः-किं पुनरन्यदपि मे कथय, यत्कुमारत्वे मानुषस्य अमनोशं एतस्मिन्नपि तारुण्ये चङ्गत्वं वर्धते ॥ राजा-नूनं द्वाविह प्रजापती जगति यौ देहनिर्माणयौवनदानदक्षौ । एको घटयति प्रथमं कुमारीणामङ्गमुत्कीर्य प्रकटयति पुनर्द्वितीयः ॥ १७ ॥ तेन च-..'हृदयहरणमन्त्रं यौवनं कामिनीनां जयति मदनकाण्डः षष्ठको बलिष्ठश्च ॥ १८ ॥ तथा च-अङ्गं लावण्यपूर्ण, श्रवणपरिसरे लोचने हारतारे, वक्षः स्थूलस्तनं, त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम् । चक्राकारो नितम्बः तरुणिमसमये, किंन्वन्येन कार्य, पञ्चभिरेव बाला मदनजयमहावैजयंत्यो भवन्ति ॥ १९ ॥ " इति । (चङ्गः सुन्दरः इत्यर्थे देशी ॥ . ' अत्रोकीर्य प्रकटयतीत्यनेन निर्माणकर्तृचतुर्मुखापेक्षया कामस्याधिक्यमभिव्यज्यते । तथा च यौवने अमनोज्ञस्यापि सौभाग्यवृद्धिर्भवतीति भावः । ” इति तट्टीकायां वासुदेवः ॥ काण्ड: बाणः । हारतारे हारे हरणशीले तारे कनीनिके ययोः ते । अन्येन पुष्पादिना ।) तथा च-'श्रीपरिचयाजडा अपि भवंत्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि ॥" इति। (मदः हर्षः भरः इति यावत् , उपदिशति आविष्करोति इत्यर्थः । “अनाचार्योपदिष्टं स्याललितं रतिचेष्टितम् ।" इति ललितम् ।) उक्तं च-"दृश्यं दृशां सहस्रर्मनसामयुतैविभावनीयं च । सुकृतशतकोटिभोग्यं किमपि वय: सुभ्रुव: सदने ॥ " इति ॥ पुरुष. यौवनं तु इत्थं अवणि कविकुलगुरुणा कालिदासेन-“अथ मधु वनितानां नेत्रनिर्वे. शनीयं, मनसिजतरुपुष्पं रागबन्धप्रवालम् । अकृतकविधि सर्वांगीणमाकल्पजातं, विलसितपदमाद्यं यौवनं स प्रपेदे ॥ " (१८।५२) इति रघुवंशे । (आकल्पजातं आभरणसमूह, विलसितपदं विलासस्थानम् । अत्र मधु इत्यनेन रसः, पुष्पं इत्यनेन गंधः, प्रवालं इत्यनेन मार्दवप्रतीतेः स्पर्श:, आकल्पजातं इत्यनेन च रूपं अनुसंहितं, तेन ज्ञानग्राहकचतुरिन्द्रियविषयसंपत्ति: उक्ता ।) इदं स्त्रीयौवने यथायोग्यं अतिदेश्यम् । यौवनं एतादृशगुणवत्त्वात् 'मधुरं वयः' 'चतुरं वयः' 'नवं वयः' 'अरालं (कुटिलं) वयः' 'भोग्यं वयः' इति च निर्दिश्यते॥एतद्गुणैः आयुषः यौवनमेव सारम् इति स्थितम् ॥अपि च ऋतूनां शरदादिकानां षण्णां, सारः श्रेष्ठः उत्कर्षों वा, कुसुमसायकः पुष्पशरः कामदेव: वयस्य: मित्रं यस्य स: वसंत: इत्यर्थः, यथोक्तं कुमारसंभवे (३।२१)-" मधुश्च ते मन्मथ साहचर्यादसावनुक्तोऽपि सहाय एव।" इति, तथात्वं च तस्य पुष्पसमृद्धया पुष्पबाणसाध्यानुकुलकरणात् , अत: भगवद्गीतासु विभूतियोगाध्याये भगवानपि-" मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ।" (१०।३५ )इति तस्य श्रेष्टयं प्राह । (कुसुमाकर: वसंतः, तस्य परमरमणीयत्वात् ।) ॥ एवं श्वासोच्छासक्रियाभिलक्षितस्य जीवितस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com