________________
२२१
कुट्टनीमतम् । सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा ।
वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥ ६६७ ॥ क्यानि विलाप इति कथ्यते ॥” इति, सोऽपि स्नेहप्रकाशकः ॥ इदं पुरो दृश्य, उपवनं आरामः,तदपि कामिनां विहारदेशेषु एकः, तथा च भावप्रकाशे-"सरित: पुलिनं वेला कान्तारारामभूधराः । लतागृहाणि चित्राणि शय्या किसलयोचिता ॥ दिवाविहारदेशाः स्युः ।" इति । सुरभिलक्ष्भ्या वसंतश्रिया, निर्भरं अतिशयेन गाढं, आलिंगितं संश्लिष्टं, अतिधन्यं बहुपुण्यवत् “ धन्यः पुण्यवति स्मृतः” इति विश्वप्रकाशात् , अतिप्रशंसनीयं इति यावत् ; प्रियेण सह क्रीडाद्यधिकरणत्वेन परिचितत्वात् । तदा तादृशस्य तस्य उद्दीपनविभावत्वेन मन्मथमहातीर्थरूपत्वात् , नपुंसकस्याप्युपवनस्य तरुण्या वसंतलक्ष्म्यालिंगितत्वात् च अतिधन्यत्वं इत्यपि ध्वनितम् । क्षेमेन्द्रेण नायिकाभावविपर्ययेण वसन्तहूद्यानश्रियोः समाश्लेष: सचमत्कारमवर्णि- क्षैण्यक्षामं शिशिरसमयं वृद्धमुत्सृज्य दूरे, त्यक्त्वा शीतं तरुणमसकृगाढरागानुबंधम् । उद्यानश्रीर्मधुमभिमतं बालमेवालिलिंग, प्राय: स्त्रीणां वयसि नियतिर्नास्ति कार्यार्थिनीनाम् ॥" ( समयमातृकायां ७।७) इति । उत्तरार्धेण उपवनस्य धन्यत्वे हेतुं आह मदिति । यत्र यस्मिन् उपवने, स: प्रस्तुत: संधेयः, जीविताधीश: प्राणेश्वरः, मत्कंठनिषक्तबाहुः, बभ्राम विनोदार्थ परिक्रमणं वर्तनानि वा चकार ॥ उद्यानगमनस्य शंगारपोषकत्वं प्रसिद्धम् ॥ अवसरोऽलंकारः-" अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणीक्रियते । अर्थस्य तदभिधानं प्रसंगतो यत्र सोऽवसरः ॥” इति लक्षितः, अयमेव अन्यैः उदात्त इति व्यवहृतः ॥ ६६६ ॥ आलिंगनप्रसंगविशेषं स्मारयति सख्य इति । सख्यः इति संबोधनम् । इत: अस्मिन् स्थले, सार्वविभक्तिकः तसिः । भ्रमराणां द्विरेफाणां, कुलेन समूहेन, त्रासितया आकस्मिकमनोविक्षोभरूपं त्रासं प्रापितया । सहसा तत्काले एव । वक्रीभवत्पयोधरं गाढालिंगनवशात् वक्रीभवंतौ नि नौ पयोधरौ स्तनौ यथा स्यात् तथा, अपि च धीर: मंदः सीत्कार: वेदनाद्योतक: दृढदंतसंयोगनिमित्तो ध्वनिः स यथा स्यात् तथा, उपगूढः आलिंगितः । इदं स्तनालिंगनं,यथा लक्षितं रतिरहस्ये (६।१२)-"उरसि कमितुरुच्चैराविशंतीव रागात्स्तनभरमुपधत्ते यत्स्तनालिंगनं तत् । " इति॥साध्वसव्याजात् स: दृढालिंगनमहोत्सवभाजनं कृतः इति भावः । स्वयंग्रहाश्लेषसुखं च प्रापितः इति ध्वनितम् । तथाहि 'कामिनीनां सभयालिंगनस्य कामुकानां श्लाघ्यत्वप्रसिद्धिः, ' यथाडुः-" कोपप्रशमने भीतौ वियोगे पुनरागमे । संभोगे च समाश्लेषो
६६७ चक्री• (गो)। मुक्तसीत्कारम् (प)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com