SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २१४ दामोदरगुप्तविरचितं नखपीडितानि दीर्घस्रवा भवति तेन रतेन भोग्या ॥ " ( ३।३०) इति । तत्तद्विपमरत्याः समीकरणानि करणानि तत्रैवाख्यातानि तस्मात् बोद्धव्यानि । स्थूलतया तु"विवृतोरुकमुच्चैस्तु नीचैः स्यात्संवृतोरुकम् । यथास्थितोरुकं चैव समपृष्ठं समे रते ॥" इति । एवं समधिगतस्य समरतस्य फलानि तु रमणीनां कंडूतिप्रतीकारः, द्रावः, तृप्तिः, परमानन्दावाप्तिश्च ॥ एवं यथा साधनप्रमाणतः नवधा रतम् , तथा भावस्याऽपि मन्दमध्यमचण्डवेगतया तत्तदाख्यं नवधा रतम् । तथाहि रतिरहस्ये-" मन्दमध्यमवेगाः स्युर्वेगतोऽप्युभयं तथा । वेगः कामुकता शेयः, तेनापि नवधा रतम् । वीर्य बहुक्षताघातसहत्वं रतिलोलता । चण्डवेगस्य चिह्नानि, मन्दवेगे विपर्ययः ॥ एतेषां मध्यवेगे तु मध्यमत्वं समुन्नयेत् । " (३।१२-१३-१४ ) इति । अत्रापि समविषमभेदा: पूर्ववत् । तदीयवैषम्यपरिहारश्च पुरुषाणां वृष्योद्दीपनप्रयोगसेवनैः, रमणीनां च बल्योद्दीपनौषधसेवनैर्भवति । फलं तु बाह्यरते विमर्दनादि, आभ्यन्तरे च पुरुषस्य दृढं कामाकुशान्दोलनं स्त्रियश्च सर्वसहत्वम् । पुनरपि कालतः पूर्ववत् नवविधं रतम् , अचिरमध्यमचिरविसृष्टिकाललक्षितम् । ( पुरुषाणां वीर्यस्य स्त्रीणां च कामसलिलस्य लघुमध्यचिरकालीनक्रियाधीना विसृष्टि: मोक्षः ।) अत्र आनन्दलाभबीजं तु उभयोः वीर्यादेः समकालीनो मोक्षः । अन्यथा पुरुषस्य शीघ्रशुक्रपाते स्त्रियः कण्डूतेरनपगमात् संक्षोभन्यूनतया अक्षरणाच अतृप्ति: दाहश्च, स्त्रियः शीघ्रद्रावे पुरुषस्योद्दीप्तत्वेऽपि त्रियः शैथिल्यात् तस्याः निर्वेदः । एतत्परिहारस्तु यथोचितं स्तंभकद्रावणादियोगप्रयोगैः । तत्रापि उभयोः चिरविसृष्टिः प्रशस्ता, तथात्वे सुरतकालस्य दीर्घत्वात् दीर्घकालं सुरतानंदानुभवभावात् । तत्सिद्धयै पुरुषैः स्तंभकयोगा: स्त्रीभिश्च बल्ययोगा: सेव्याः । स्त्रीणां प्रारंभात्प्रभृति क्षरणे तु नान्ते प्रभूतजलमोक्षः, तेन तावत्प्रमाणा न्यूनसुखप्रतीति: इति। उभयोः समकालविसष्टी तु--"क्षणं रटन्ती नृत्यन्ती रुदती चातिविह्वला । नि:सहत्वं तदा याति मुकुलीकृतलोचना ॥" ( रतिरहस्ये ३।१०) ( रटन्ती अव्यक्ताक्षरं प्रियेत्यादिकं जल्पन्ती, नत्यन्ती अङ्गचालनं कुर्वती, रुदती निःश्वाससीत्कारादि मुंचती, विह्वला विक्लवा, निःसहत्वं शैथिल्यं, मुकुलीकृतलोचना इति सुरतसुखपारवश्यानुभावः)॥ तत्र हस्तिनीययोः समरतमुद्दिश्य उक्तं केनापि-"शुक्रस्तंभी दीर्घलिंगी वज्रघाती तथा बली । चित्ते वसति रामाया न शूरो न च पण्डित: ॥" इति । (शुक्रस्तंभी इत्यनेन चिरविसृष्टित्वम् , दीर्घलिंगी इत्यनेन महाप्रमाणत्वम्, वज्रघाती इत्यनेन चण्डवेगत्वमुक्तं, बली इत्यनेन बाह्यरतोद्दामत्वं लक्षितम् ; यद्वा शक्तेरभावात् अन्यत् सर्व अप्रयोजकं इति द्योतयितुं बली इति पदं निविष्टम् । बलित्वसिद्धिश्च वाजीकरणादिबल्यप्रयोगः ॥) एवं प्रमाणभावकालकृताः सुरतस्य सप्तविंशति: भेदाः, तत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy