SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । २१३ तथैव तदनुक्रमिका: पांचालकूचिमारदत्तभद्राः नायकाः कथिता: । ( अत्र आयामपदेन पौस्न्यं उन्नतं प्रमाणं ग्राह्यं, स्त्रैणं तु निम्नं; न तु परिणाहः तस्य अनौचित्यात् योनिसंकोचकप्रयोग: तद्वैषम्यस्य सुपरिहार्यत्वात् । तेन रतिरहस्ये ( ३ | १ ) प्रयुक्तपरिणाह'पदस्य निम्नत्वं इत्यर्थ: ग्राह्य: । षडङ्गलः इति चतुरङ्गलं आरभ्य षडङ्गुलं यावत् येन नापि प्रमाणेन युक्तः, नवाङ्गुलः इत्यस्य षडङ्गलाधिकः नवाङ्कुलावधिः इत्यर्थः । एवं अन्यत्र ||) तत्र आद्यभेदेषु सदृशयोः संप्रयोगे नाम शशस्य मृग्या, वृषस्य वडवया, अश्वस्य हस्तिन्या सह रन्ध्रेन्द्रियसमाप्तिलक्षणे त्रीणि रतानि, तानि, समयोः सदृशयो: समस्वस्वव्यञ्जनप्रमाणयोरिति यावत्, रतेन समरतानि इत्युच्यन्ते । तानि प्रशस्तानि, तत्र यंत्रसाम्यात् अनतिपीडनाशैथिल्याभ्यां उभयोः सुखातिशयात् ॥ आदौ उक्तप्रकारेण वैषम्ये तु षट् अपराणि, तदुक्तं रतिरहस्ये - " मृगीवृषं च वडवाहयमुच्चरतं द्वयम् । नीचद्वयं च वडवाशशकं हस्तिनीवृषम् | अत्युच्चमतिनीचं च मृग्यश्चं हस्तिनी - शशम् । इति प्रमाणभेदेन नवधा रतमूचिरे ॥ उत्तमानि समान्याहुर्मध्यमुच्चरतद्वयम् । नीचद्वयं तथाऽत्युच्चमतिनीचं महाधमम् || ” ( ३१३ - ४ - ५ ) इति ॥ ( मध्यमं अर्धसमं इत्यपि आख्यातम् । ) अत्र रहस्यं तु यदा मदनांकुशमुखं वरांगस्योपरि स्थितं अधोमुखकमलमुखं स्पृशति तदैव अंगनानां कामसंतुष्टिः आनन्दोदयश्च । आविष्कृतं चेदं केवलं हरिहरण, तथाहि--" यथा पुष्पं लिङ्गं कमलवदनं मन्मथगृहे प्रसन्नाग्रं मन्दं विश यदि रेतोविरहितम् । ततस्तस्य प्रान्ते स्थितविवरयुग्मं च शनकैः स्रवद्रेतः सान्द्रं मदनसदनं तत्र कुरुते ॥” (३।२८) इति शृङ्गारदीपिकायाम् । ( मन्दं विशति स्पृशति इत्यर्थः, विवरयुग्मं मदनदोलापूर्णचन्द्रेति नाड्यौ स्मरमन्दिरे वामदक्षिणपार्श्वयोः स्थिते काम - लिलक्षरणात् विवरयुग्मं इत्यत्र उक्ते । अत्र रेतः स्त्रीकामसलिलं, “रेतो वीर्ये जले चाथ | " इति केशवः । तेन नीचरते द्वयोः अग्रयोः असंबंधात् कामासंतुष्टेः, उच्चरते च तयोः पीडनेन दुःखोदयात्, न सम्यक् सुखावाप्तिः । तदुक्तं तत्रैव - "कंडूतेरप्रतीकारादंत लिंगाविमर्दनात् । न द्रवन्ति न तृप्यन्ति योषितो नीचमोहने || उच्चेऽपि मृदुगुह्यान्तः संपीडासव्यथे हृदि । न द्रवन्ति न तृप्यन्ति मनस्तंत्रो हि मन्मथः | " (३।६-७) इति । ( स्मरालयजकृमिबलानुसारेण जनितायाः कण्डूतेरप्रतीकारस्तु संबाधस्य योनिमार्गाव्यापनात् । अन्तर्लिङ्गं कमलमुखम् । ) अत्र कमलरोहणावरोहसंपादनेन विषमरतगत - तत्तद्दोषपरिहाराय कामशास्त्रेषु चतुरशीति बंधाः आसनानि वा करणापरनामानि बोधितानि । तदुक्तं शृंगारदीपिकायाम्" एतानि चतुरशीति बंधानि मदनस्मृतौ । प्रथितान्यथ कान्तानां समसंभोगसिद्धये || ” ( ३।२७ ) इति । अपि च- “ बंधेन येन रमणी विनिमीलिताक्षी स्रस्तांगकाऽर्धगदिताननुमेयरावा । विस्मृत्य देहमभितो - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy