________________
दामोदरगुप्तविरचितं
( उ०२) यथा-"कामस्तु विषयातिसक्तचेतसो: त्रीपुंसयोनिरतिशयसुखस्पर्शविशेषः । परिवारस्त्वस्य यावदिह रम्यमुज्ज्वलं च । फलं पुनः परमाहादनं परस्परविमर्दजन्म स्मर्यमाणमधुरमुदीरिताभिमानमनुत्तमं सुखमपरोक्षं स्वसंवेद्यमेव ।" इति । (निरतिशयं श्रेष्ठं सुखं आनंदः यत्र तादृश: स्पर्शविशेषः संभोगः, 'स्त्रीपुंसयोः यत् अधोव्यंजनं संबाधकादि' तयोः त्वगिन्द्रियत्वात् तत्संयोगः स्पर्शविशेष एवेति । परिवारः परिजनः सहायकः । विमर्दः आलिंगनचुंबनादिरूपः सोऽपि स्पर्शविशेषात्मकः । स्मर्यमाणमधुरं यस्य स्मरणमपि सुखजनकं इत्यर्थः । उदीरिताभिमानं विकसितप्रणयं यद्वा उदीरितः जनितः अभिमानः सार्थक्यबुद्धिः यतः इत्यर्थः । न विद्यते उत्तमं अन्यत् यस्मात् तत् अनुत्तमम् । अपरोक्षं प्रत्यक्षम् । स्वसंवेद्यं अवाग्गोचरम् । अनुत्तमभित्यादिपदचतुष्टयेन कामस्य मोक्षसुखतुल्यत्वं सूचितम् । ) नरस्य पुरुषस्य उपभोगः संवनं, समरताख्यः य: नरोपभोगः तेन, तृतीयः पुरुषार्थोऽपि सिद्धो भवति । तदुक्तं-" संभोगे तु समे कान्ता मरणांतं वशं ययुः ।" (शं.दी.३।१२)। (तादृशस्य सुरतस्य रमणीनां तृप्त्याधायकत्वात् , तृप्तिलक्षणं तु-"रोमाञ्चो वेपथु: स्वेदो लुलिते च विलोचने । मजन्त्या इव देहेषु त्वाश्लेषस्तृप्तिलक्षणम् ॥” इति । ) तच्च समरतं प्रशस्तं हरिहरेण शृंगारदीपिकायां-" रेत:स्रावकसंभवा प्रतिदिनं संतोषसंवधिनी, मोहोत्पादनकारणाऽतिविमला हृलोचनानंदिनी । अन्योन्यप्रणयान्मिथो नरवधू. . युग्मेष्वनष्टप्रिया, वश्या सर्वसुखप्रदा समरतिः संप्रार्थिता निर्जरैः ॥” ( ३।४१ ) इति ॥ समरतम्-समप्रमाणसाधनवेगभावयोः स्त्रीपुंसयोः रतं समरतम् । तेषु पुरुषगताधिक्ये उच्चरतं इति, स्त्रीगताधिक्ये नीचरतं इति संज्ञा । अन्त्ये विजातीयसंयोगवशेन विषमरते इत्यपि उच्यते ॥ वात्स्यायनीये स्त्रीपुंसगुह्ययोः षण्नवद्वादशां (६-९-१२)गुलायामेन क्रमात् शशः वृषः अश्व इति नायकाः, मृगी वडवा हस्तिनी इति नायिकाश्च, समाम्नाताः । अन्यमते तु-" हरिणी छागी वडवा करिणी करभीति पंचधा नार्यः । मृग-बर्कर-वृष-तुरग-रासभ-संज्ञा नराः पञ्च ॥ ऋतु ६ लोकपाल ८ पंक्ति १० द्वादश १२ भुवनाङ्गुलो १४ न्मितैर्गुयैः । अनुपूर्वतस्तु युक्ता हरिणीहरिणादयो शेयाः ॥ ” इति सौराष्ट्रीयमाधवकृतायुर्वेदप्रकाशान्तर्गतकामशास्त्राध्याये । रुद्रकृतस्मरदीपिकायां तु षडङ्गुलशरीर: शश:, अष्टाङ्गुलसाधनः मृगः, दशाङ्गुलमेढ़ः वृषभः, द्वादशाङ्गुलमेढ़ः हयः इति लक्षयित्वा-" शशकः पद्मिनीं चैव, चित्रिणीं तु मृगस्तथा । शंखिनी वृषभश्चैव, हस्तिनीं च हयस्तथा ॥ (३०)। रमते तुल्यभावेन तथा समरतं भवेत् ॥” इति कथितम् । हरिहरेण तु शृंगारदीपिकायां प्रकारान्तरेण षडष्टदशद्वादशाङ्गुलायामेन क्रमात् पद्मिनी-शंखिनी-चित्रिणी-हस्तिनी इति नायिकाः,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com