________________
कुट्टनीमतम् ।
२११
धर्मः कामादभिनवगुणवानिःस्वस्य मदनरोगवतः।
अर्थोऽर्थवतोऽभिगमात्, कामः समरतनरोपभोगेन ॥ ६५२ ॥ माध्वसु । ” इति विश्वलोचन:, व्रजति ॥-अधिकारिणां भेदात् उपायभेदेन अन्यान्यैः कर्मयोगेन अष्टांगयोगेन भक्तियोगेन ध्यानयोगेन ज्ञानयोगेन वा परमानंदप्राप्तिस्वरूपा निर्वृतिः प्रतिपादिता, सैव तदधिकारिणीभिः ललनाभि: स्नेहयोगाख्योपायेन प्राप्यते इति तात्पर्यम् ॥ मूले ललनासाम्याय दीपज्वालायाः ग्रहणे बीजं तु उभयोः प्रकाशमानत्वं, " ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । " इति हर्युक्तेः परोद्दीप्यत्वं तथा परोद्दीपकत्वं स्नेहोपजीव्यत्वं च । तेन उभयोः गम्यं औपम्यं, निर्वृतिस्नेहशब्दयोः श्लिष्टत्वात् श्लेषानुप्राणितः, उभयभेदकथनात् व्यतिरेकालंकारः, स च अत्र उपमेयस्य उपमानात् आधिक्ये न्यूनत्वे वा अपर्यवसानात् अनुभयपर्यवसायी, स्ववैचिव्यविश्रांतिमात्रत्वात् । " शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोईयोः । तत्र यद्भेदकथनं व्यतिरेकः स कथ्यते ॥ " इति काव्यादर्श ( २।१८० ) व्यतिरेकालंकारलक्षणम् । प्रकृते 'निर्वृतिं व्रजत: ' इति सादृश्यं शब्दोपात्तं, भेदश्च ' स्नेहं विना ' 'स्नेहयोगेन' च इति विरुद्धधर्मोपादानेन स्फुटतरः इति बोध्यम् ॥ अत्र ललनापदेन स्वीयादिभेदभिन्नानां सर्वासां नायिकानां अविशेषेण बोधात् स्त्रीमात्रस्य स्नेहयोगेन मोक्षस्वरूपभूतानन्दप्राप्त्या तुरीयपुरुषार्थः सुलभः इति ध्वनितम् ॥] ६५१ ॥[अस्यां नानारमणानां वेश्यानां धर्मादिशेषपुरुषार्थप्राप्तिं उद्घाट्य तासां व्यतिरेकं ध्वनयति धर्म इति । तथा हि मदनरोगवतः कामातुरस्य, नि:स्वस्य धनविहीनस्य दरिद्रस्य, कामात् लक्षणया कामस्य संभोगदानेन संतर्पणात् , अभिनवगुणवान् भाटकदानाशक्त्या तस्मात् अर्थलाभाभावेन निष्कामकर्मत्वात् विशिष्टगुणकः, धर्म: " यतोऽभ्युदयनिःश्रेयससिद्धिः " तादृशं कर्म, कार्यकारणयोरभेदेन तजन्यं शुभादृष्टं च भवति, "आर्तेषु दीयते दानं, शून्यलिंगस्य पूजनम् । अनाथप्रेतसंस्कारमश्वमेधफलं लभेत् ॥” इति न्यायेन; एवं आद्यपुरुषार्थसिद्धिः प्रतिपादिता ॥ द्वितीयं अर्थलाभमाह अर्थ इति । अर्थवतः धनवतः, अभिगमात् संभोगात् , अर्थः धनं तत्प्राप्तिः इत्यर्थः; प्रसिद्धेयं द्वितीयपुरुषार्थसिद्धिः, उक्तं च-"पुण्यप्रागल्भ्यलभ्याय वेश्यापण्याय मंगलम् । यत्र प्रतीपा: शास्त्रस्य कामादर्थप्रसूतयः ॥” (४७ ) इति सत्यहरिश्चंद्रनाटके ॥ कामः कामाख्यः तृतीयः पुरुषार्थः, वर्णितो यः दशकुमारचरिते
६५२ धर्मः परो न विहितः कामकलायां मतिः स्थिरा यस्य । इति का. ६२८ श्लो. कोत्तरार्धन सहायं सार्धश्लोकः गो पुस्तके, तदयुक्तमस्मिन् ग्रन्थे सार्धश्लोकस्याभावात् । प पुस्तके इयं पंक्तिर्नास्त्येव । कामो न वा प्रकामं गुणवनिःस्वस्य मदनयोगवतः। (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com