________________
२१०
दामोदरगुप्तविरचितं अवधारणा रसायनर्मपमानो भवति यस्य परितुष्टयै । योग्योऽसौ पुरुषखरः खरतरनिर्भर्त्सनोक्तिलगुडानाम् ॥६५०॥ दीपज्वालाललने व्रजतः खलु निति तयोस्त्वियान् भेदः ।
प्रथमा स्नेहेन विना, तथाऽपरा स्नेहयोगेन ॥ ६५१ ॥ जातमिति भाव: । फलितमाह-निरर्थक इति; तत: कामुकेन द्रव्यादानत: वेश्यया देहादानतश्च अनिष्पन्न: अत एव शुष्क: नीरस: मिथ्याभूतः सकपटो वा, यथा शुष्करुदितशुष्ककलहादौ, शृंगारः संभोगेच्छादिरूपः, "पुंस: स्त्रियां स्त्रियः पुंसि संभोगं प्रति या स्पृहा । स शृंगार इति ख्यातः क्रीडारत्यादिकारकः ॥” इति लक्षणलक्षित:, निरर्थक: निष्फल: फलोत्पादनासमर्थ: वंध्यः इति यावत् । द्वयोरपि उपकारकारणाभावात् न शृंगारकार्यसमुद्भवः इति भावः ॥ ६४९ ॥ एवं सति, अपमानितं अपि न निःसरन्तं कामुकमूर्ख निंदति अवेति । अवधीरणा अवज्ञा । ] रसायनं सर्वेन्द्रियपुष्टिकास्विाद्यपदार्थविशेषः, ["यजराव्याधिविध्वंसि वयस: स्तंभकं तथा । चक्षुष्यं बृहणं वृष्यं भेषजं तद्रसायनम् ॥” इति लक्षित: औषधविशेष:;] यस्य कुलटानादरः तदिव सुखकर: सोऽसौ अतिमूढत्वात् खरतुल्य: पुरुष: इति भावः । अपमानः तिरस्कारः, परितुष्टयै संतोषाय आह्लादाय वा; असौ पुरुषखरः पुरुष एव खरः रासभः, वेश्यानां या खरतरा: अतिपरुषाः, निर्भर्त्सनोक्तय: संतर्जनवचनानि ता एव लगुडा: यष्टयः तेषां लक्षणया तत्प्रहाराणां योग्यः समुचितः । 'खरः खर' इत्यत्र यमकं, 'खरः खरतर' इत्यत्र अनुप्रास:, अर्थालंकारेषु रूपकं स्पष्टं, खरश्च लगुडानां योग्यः इति समालंकारोऽपि॥]६५०॥ [धर्मादयः चत्वारोऽपि पुरुषार्था: वेश्यानां स्वातंत्र्येण अल्पयत्नसाध्याः इति अपूर्व वैशिकरहस्यं दीपेत्यादिभ्यां चर्चति । तत्र पुरुषार्थचतुष्टये परमानंदस्वरूपमोक्षस्य प्राधान्यात् आदौ तमाह दीपेति । दीपज्वाला दीपशिखा, ललना ललयति ईप्सते कामान् इति ललना कामिनी, इदं पदं सर्वासां स्त्रीणां उपलक्षकं न तु केवलं वेश्यानां, उभे, खलु निश्चये, निवृति, व्रजत: प्राप्नुत:, परंतु तत्र कश्चित् भेदोऽस्ति, स तु, प्रथमा आद्या दीपज्वाला स्नेहेन तैलेन विना ] निर्वृतिं निर्वाणावस्थां [ अस्तमनं व्रजति, तथा अपरा अन्या ललना, च: त्वर्थकः, स्नेहस्य प्रेम्णः, योगेन उपायेन, निर्वृति ] आनंदानुभवं [चतुर्थपुरुषार्थस्वरूपभूतं, " निर्वृतिः सुस्थितासौख्यनिर्वाणास्तग
६५० "मवमानो यस्य (गो)। 'क्तिकुलटानाम् (गो) [लकुटानाम् इति स्थाने लेखकस्खलनात् अक्षराणां परिवर्तनं भाति ] ६५१ दीपकलोले ललने व्रजतो निर्वृतिमयं तयोर्भेदः (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com