________________
कुट्टनीमतम्।
२१५
यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः । स पुमान्सच्चरितधनैः पर्यनुयुक्तः किमाचष्टे ॥ ६५३ ॥
(संदानितकम् ) कामोद्वेगगृहीतं धूर्तरुपहस्यमानशृङ्गारम् ।
दारिद्यहतं यौवनमबुधानां केवलं विपदे ॥ ६५४ ॥ नवविधं समरतम् । शेषं विषमरतम् ॥ ६५२ ॥ एतद्विपर्ययेण नरस्य वेश्योपभोगात् एकस्य कस्यचिदपि पुरुषार्थस्य असिद्धेः तं निंदति यस्त्विति । तु व्यावर्तने, तेन वेश्योपभोगात् इति लभ्यते, यः पुरुषः, धर्मप्रात्यै न भवति इति शेष: धर्म न प्राप्नोति इत्यर्थः, वेश्याभिगमने प्रायश्चित्तकथनात् तस्य अधर्मत्वात् , तदुक्तं-" पशुवेश्याभिगमने 'प्राजापत्यव्रतं चरेत् ।" ( १०११३ ) इति पराशरस्मतौ । न अर्थाय यः धनं न प्राप्नोति, प्रत्युत तस्य हानि, यथोक्तं"वेश्याऽसौ मदनज्वाला रूपेन्धनसमेधिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥” इति । न कामस्य साधनं सिद्धिः, "साधनं मेहने सैन्ये निवृत्तिगतिसिद्धिषु ।" इत्यादि विश्वलोचने, तस्य उपाय: उपागतिः यस्य सः, अप्राप्तकामफलः इति यावत्, वेश्यायाः कूटरागादित्वात् तच्छंगारस्य आभासत्वात् न पुरुषस्य यथातथं कामपुरुषार्थसिद्धिः, स: पुमान् एवंविधः नरः, सच्चरितं पुरुपार्थसाधकं शोभनं चरितं आचारादि तदेव धनं वित्तं येषां तैः सदाचारः, त्वया दुर्लभपुंजन्मना वेश्यागमनेन कोऽर्थः साधित: इति ] पर्यनुयुक्तः पृष्टः, [तदुत्तरे, किं प्रश्ने, आचष्टे वक्ति, न किमपि इत्यर्थः; नैकस्यापि पुरुषार्थस्य सिद्धेः प्रत्युत अर्थहानेः लजया मौनमाश्रित्य अधोमुख एव भवियति इति भावः ॥ संदानितकं युग्मं, “ तत्रैकेन च्छंदसा मुक्तकं, द्वाभ्यां युग्मं संदानितकं च, त्रिभिर्विशेषकं, चतुर्भिः कलापकं, द्वादशान्तः कुलकम् । " इति वाग्भटप्रणीतकाव्यानुशासने । (कचित् त्रिभिः तिलकं, चतुर्भिः चक्कलकं इत्यपि संज्ञाः । ) अत्र संदानितकोल्लेख: चिन्त्यः ॥६५३॥ पुनरपि दरिद्रं कामुकं निंदति कामेति । कामेन मदनेन, य: उद्वेगः व्याकुलचित्तता, तेन गृहीतं आक्रान्तं, धूतैः विटैः, उपहस्यमानः शृंगारः रतिरस: यस्य तत्, दारिद्यहतं निर्धनतया शोचनीयं, एतादृशं यौवनं मध्यम वयः, अबुधानां मूर्खाणां द्रव्यरूपकारणाभावेऽपि वेश्यारतिरूपकार्यप्रेप्सूनां इति भावः, विपदे दुःखाय, एव भवति । उक्तं हि-" मूल् द्विजाति:, स्थविरो गृहस्थः, कामी दरिद्रो, धनवांस्तपस्वी । वेश्या कुरूपा, नृपतिः कदर्यो, लोके षडेतानि विडंबितानि ॥"
६९३ धर्मः प्राप्य (4) सच्चरितनरैः ( गो. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com