________________
कुट्टनीमतम् ।
२०७
उत्पादयति सदानो राग रागात्मको यथा नियतम् । निर्दानोऽपि सदा नो निःसन्देहं तथैव मनुजन्मा ॥ ६४३ ॥ यदतीतं तदतीतं, भाविनि लाभे च नास्ति बहुमानः । तत्कालहस्तनिपतितमनियतपुंसां मुदे वित्तम् ॥ ६४४ ॥ पीडितमधु मधुजालं तुच्छीभूतं च मन्मथग्रस्तम् ।
मुश्चन्ति मदनशेष क्षुद्राच प्रकटरामाश्च ॥ ६४५ ॥ वेश्या:, आत्तसर्वस्वं आत्मने (वेश्याय) प्रापितसर्वस्वं चूषिताम्रवत् रिक्तीकृतं,नरं पुरुषं त्यति इति किमु वक्तव्यं इत्यर्थः, "किमु संभावनायां स्याद्विमर्श चापि दृश्यते। " इति मेदिनी ॥६४२॥ अपरोक्षधनस्य प्रियत्वमाह उत्पादयति इति । रागात्मकः अनुरक्तः, मनुजन्मा मनुः ब्रह्मणः पुत्रः प्रजापतिः तस्मात् जन्म यस्य सः मनुष्यः, जातावेकवचनं, ] सदानः उदारः [ वितरणशील: सन् , यथा, नियतं निश्चितं, रागं प्रीति उत्पादयति जनयति; तथैव निर्दानः धनाभावेन धनसत्त्वे वा कृपणतया धनस्य अदाता, नि:संदेहं निश्चयेन, सदा सर्वदा अव्यभिचारेण इत्यर्थः, रागं प्रीति, नो नहि, उत्पादयति इति अनुषज्यते ॥ अत्र 'सदानो' 'सदा नो' इति व्यपेतयमकाख्यः शब्दालंकारः, 'रागं रागा-' इत्यत्र आदिभागयमकं, 'निदानोऽपि सदानो' इत्यत्र शाब्दो विरोधाभासः च, इति शब्दालंकाराः ॥ ६४३ ॥ तस्य न्याय्यत्वं निरूपयति यदिति । अनियतपुंसां नैकभोग्यानां सामान्यानां वेश्यानां, यत्, अतीतं भूतकाले प्राप्तं, विनं धनं, तत् तु अतीतं गतं भुक्तं वा, " ह्यो भुक्तं नाद्य तृप्तिकरम् ।" ( समयमातृका ८।११४ ) इति न्यायात्; भाविनि भविष्यत्कालसंबंधिनि, च, लाभे प्राप्तौ द्रव्यस्य कामुकात् , बहुमान: संमान: श्रद्धा वा, न, "वरमद्य कपोतः श्वो मयूरात् ।" (कामसूत्रं ११२) इति न्यायात् । अतः तत्काले वर्तमानकाले एव यत् हस्तनिपतितं करतलगतं भवति, तत् द्रव्यं एव, तासां मुदे हर्षाय प्रीत्युत्पादाय वा । 'तत्क्षणधनदानभोग्याः' वेश्याः भवंति इति भावः ॥६४४॥ [ तासां धनैकमतिमुक्त्वा असारपरित्यागशालित्वं वक्ति पीडितेति । पीडितमधु निष्पीडितक्षौद्रं उद्वसं, मधुजालं मधुच्छत्रं 'मधपुडो' इति भाषायां; तुच्छीभूतं रिक्तीभूतं द्रव्यापगमेन निःसारं,मन्मथग्रस्तं मदनाविष्टं कामिनं; उभयमपि मदनशेषं-मदनं मधूच्छिष्टं 'मोम' 'मीण ' इति वा भाषायां
६४३ यथाऽभ्यधिकम् (प. गो २) ६४४ लाभेऽपि नातिबहु० (गो)। हस्तपतितमनि० (गो) [न्यूनमात्रः पाठः]। चित्तम् (गो) [अनुचितार्थः पाठः] ६४५ भूतं तु मन्मथायत्तम् (4)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com