________________
दामोदरगुप्तविरचितं या धनहार्या नार्यो निर्मर्यादाः स्वकार्यतात्पर्याः ।
सह ताभिरपीहन्ते बत मन्दाः सङ्गतमजयम् ।। ६३८॥ रति: कामकेलि: संभोग: सैव शिल्पं कला तत् जीविका जीवनसाधनं वृत्तिः यासां ताभिः वेश्याभिः इत्यर्थः, धनाहरणाय कामुकानां शृंगारोद्दीपनार्थ रतिस्थायिभावस्य रसस्य वर्धनाय, यत्नेन प्रयत्नेन, कपटघटितान् मायारचितान् अवास्तवान् कूटान् इत्यर्थः, अनुभावान् स्मितकटाक्षभ्रूविक्षेपादीन् , अनुभावः तु " बहिः प्रकाशयन् भावमुद्बुद्धं स्वस्वकारणैः । लोके कार्याभिधो यः सोऽनुभावः काव्यनाट्ययोः ॥” इति (कर्णभूषणे २।१) लक्षणेन लक्षित:, (स्वैः स्वैः कारणै: आलंबनोद्दीपनरूपैः उद्बुद्धं रत्यादिकं भावं बहिः प्रकाशयन् लोके यः (भावस्य ) कार्य इत्यभिधीयते स अनुभाव: इत्यर्थः) । तत्र इमे कटाक्षादय: नायिकाया: स्वात्मनि रसानुभवकरणत्वेन जाताः अनुभावाः, नायकस्य पुनः ते दृष्टिपथं गताः तन्मनो विकारयंति, अतः तं प्रति ते च विषयत्वेन उद्दीपनविभावाः । “तथा च कटाक्षादीनां करणत्वेन अनुभावकता, विषयत्वेन उद्दीपकता च, इति ध्येयम् ॥ इत्यपि तत्रैव । एतदनुसारेण मूले पूर्वार्धस्य भावः । एतादृशान् अनुभावान् , मूढाः कामेन मोहं आपन्नाः मूर्खा: जडबुद्धयो वा, तत्त्वेन स्वरूपेण गृह्णति इमे स्मितादयः तस्याः प्रीतिं प्रकाशयंति इति मन्वते कृत्रिमान् अनुभावान् आनुरागिकान् मूढा मन्वते इति भावः ॥ उक्तं च शंगारतिलके (११६५ )-"धनार्थ कृत्रिमै वाम्यं व्यामोहयंति ताः।” इति । (ग्राम्यं मूर्खम् । ) ॥६३७॥ अपरं हेतुमाह या इति । या: नार्यः स्त्रियः, केवलं धनहार्या: धनेन द्रव्येणैव न तु रूपगुणादिभिः हार्या: हर्तु वशीकर्तुं शक्या:, यथोक्तं-"हारहीरकहिरण्यभूषणैस्तोषमेति गणिका धनैषिणी । प्रेमकोमलकटाक्षवीक्षितैरेव जीवति कुलाङ्गनाजनः ॥” इति ; तथा " वहसि हि धनहार्य पण्यभूतं शरीरम् ।" (१११७) इति चारुदत्ते गणिकां प्रति विटोक्तिः । निर्मर्यादाः उल्लंधिताचारनियमाः त्यक्तलजाः इत्यर्थः, स्वकार्यतात्पर्याः स्वेष्टसाधनेकदृष्टयः, विशेषणैः वेश्याः इति लाभः, ताभिः सह, मंदाः मूर्खाः, “ मंद: काकमूर्खयोः।" इति अमरः,] अजर्य न जीर्यति इति अजरं नियतं [अनपायं, संगतं सख्यं, अत्र विशेष्यत्वेन उपात्तं संगतं, तद्विशेषणं अजय; यन्मते "अजर्य संगतं" (पा.३।१।१०५) इति निपातः तन्मते अजय मैत्री सख्यं, कीदृशं संगतं समयक्रमेण उचितं इत्यर्थः उन्नेयः। " सख्यं साप्तपदीनं सौहार्द सौहृदं तथा स्नेहः । मैत्री प्रीतिरजर्य सभाजनं संगतं प्रोक्तम् ॥” इति हलायुधात् अत्र 'संगतमजय' इति पुनक्त
६३८ ताभिरपि समीहन्ते (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com