________________
२०३
कुट्टनीमतम् । क्रमगलितगौरवांशो रिक्ततया लाघवं परापतितः ।
अमाप्तपरिच्छेदः प्लवतेऽसौ युवतिसरिति कुमनुष्यः ॥ ६३६ ॥ यनेन कपटघटिताब्शृङ्गारोद्दीपनार्थमनुभावान् ।
रतिशिल्पजीविकाभिर्मुढास्तत्त्वेन गृह्णन्ति ॥ ६३७॥ तद्विपरीतं कूटं अतत्त्वं, आभ्यां समुत्थिताः समुद्भूताः याः व्यवहृतयः व्यवहाराः क्रियाः वा, तासां, अन्तरं भेदं, यो न जानाति विविच्य ज्ञातुं न शक्नोति, स: मूढः, तथा चोक्तं-"उदीरितोऽर्थः पशुनाऽपि गृह्यते,..."परेंगितज्ञानफला हि बुद्धयः ॥” इति, 1 'पशुपति: अतिमूढत्वात् बलीवर्दतुल्यः' [ इति टिप्पणी, तदरमणीयं प्रकृतश्लेषानिर्वाहात् ; पशूनां गवादीनां पतिः पालकः पशुपतिः गोपाल:, ] पक्षे [पशूनां अविद्यापाशबद्धानां नराणां पति: निग्रहानुग्रहसमर्थ: ] शिवः, अर्धचंद्रो गलचिच्चिका [ गलहस्त: 'गलची' इति भाषायां, तदभिनयस्तु-" यस्यांगुलयस्तु विनताः सहांगुष्ठेन चापवत् । सोऽर्धचन्द्र इति ख्यातः कर: ।" (९।४०) इति भरतः, ] पक्षे चन्द्रकलाभागः, [तस्य य: लाभ: प्राप्तिः तस्य स्थानं पात्रं, भवति बहुप्रकारैः अवमानितोऽपि स्वयं न निर्यातः गलहस्तिकया सापमानं निष्कास्यते इत्यर्थः । काव्यलिंगेन संकीर्णः श्लिष्टरूपकालंकारः, तनिष्पत्त्यै निष्कासनस्य अर्धचंद्रेत्यादिभंग्यन्तरेण कथनात् पर्यायोक्तं अलंकारश्च, पशुपतेः अनुरूपो योऽर्धचंद्रयोगस्तस्य कथनात् समालंकारोऽपि, इत्येतेषां संकरः ॥ ६३५॥ तत्र हेतुभूतदरिद्रत्वस्य परिणाम वर्णयति क्रमेति । क्रमेण शनैःशनैः, गलित: नष्टः, गौरवस्य गुरोः भावः गौरवं तस्य उत्कर्षस्य आदरस्य वा, पक्षे गुरुत्वस्य, अंश: लव: अपि यस्य सः, अत एव प्राप्तया] रिक्ततया निःसारतया [ निर्धनतया, पक्षे अतिलतया; लाघवं लघोर्भावं अनादरं, पक्षे लघुत्वं; परापतित: प्राप्तः, असौ वर्णितप्रकारः, कुमनुष्यः कुत्सितः मनुष्य: गीः इत्यर्थः, युवतिः अंगना एव सरित् नदी तस्यां, अप्राप्तपरिच्छेदः] 'परिच्छेदः इयत्ता' [इति टिप्पणी, तदचारु इष्टार्थाप्रदानात् , न प्राप्त: परिच्छेद: सीमा पारः येन तादृशः सन् , प्लवते तरति; रिक्त: तत्र सक्तः अलब्धफल एव वर्तते इति भावः । यथा कुनौः पण्यद्रव्यरहिता अपगतपोतस्थैर्यद्रव्या च निःसारा सरित्प्रवाहे तीरं प्राप्तुं न शक्नोति तथा इति समासोक्ति: रूपकोत्थापिता ।। अपि च " परिच्छेदो हि पाण्डित्यं " (हितोपदेशे १।१४८) इत्युक्तेः अप्राप्तपरिच्छेद इति तिरस्कृतोऽपि अप्रबुद्धः मूर्ख एव फलालाभेऽपि तत्र निरतो भवति इति सूचितम् ॥ ६३६ ॥ उक्तविधस्य मूढस्य आसक्त्याः हेतुं विवृणोति यत्नेन इति ।
६३६ कमकृशित (गो२.का ) क्रमह्रसित (प. कापा) (अधिकमात्रः पाठः) ६३७ शृंगारख्यापनार्थमनु० (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com