________________
२०२
दामोदरगुप्तविरचितं पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् । शृण्वन्नपि यः स्वस्थः स्वस्थोऽसौ कालपाशबद्धोऽपि ॥६३३ ॥ अवगम्याभिमायं स्वामिन्याः परिजनोऽपि यं पुरुषम् । अवहसति तिरस्कार्य तस्य न मूल्यं वराटिकाः पञ्च ॥ ६३४ ॥ तत्त्वातत्त्वसमुत्थव्यवहृत्योर्योऽन्तरं न जानाति ।
स्थानं भवति स पशुपतिरपसंशयमर्धचन्द्रलाभस्य ॥ ६३५ ॥ करतालिकां दत्त्वा इत्यर्थः । ] ददातु इत्यादि अतिहीनत्वात् पृथ्वीप्रवेशार्हः स इत्यर्थः । [ ददातु मही रन्ध्र इति लोकोक्तिः, भूतलनिवासायोग्यं तं पृथ्वी स्वस्या अध: वासाय अवकाशं दातुं कृपां करोतु इति तात्पर्यम् ॥ तथा च समयमातृकायां" हेमन्तमार्जार इवातिलीन: स चेन्न निर्याति निरस्यमानः । तदेष कार्यस्तनुमर्मभेदी प्रवर्धमानः परुषोपचारः ॥ " (५।७९) इति ॥ ६३२ ॥ क्रमप्राप्तं वचनावमानमाह पुरुषेति । स्वं विहाय अन्यः पुरुषः पुरुषान्तरः । अन्यस्य स्वसदृशस्य परस्य, उद्देशेन अपदेशेन । स्वस्थः स्वस्मिन् आत्मनि तिष्ठति इति स्वस्थः निर्विकारः, असौ पुरुषः, काल: कलयति आयुः इति काल: यमः, तस्य पाशेन बंधनरज्ज्वा यया जीवाः परलोकनयनाय बद्धा आकृष्यन्ते, तेन बद्धोऽपि, यमहस्तपतितः मृत्युग्रस्तोऽपि इत्यर्थः, स्वस्थः निश्चिन्तः निर्भयो वा । विरलौ तादृशौ इति भावः । तत्सादृश्येन ऐक्यारोपात् निदर्शना; अत्र स्वस्थः इति पदस्य भिन्नतात्पर्येण आवृत्त. त्वात् लाटानुप्रासः शब्दालंकारश्च, तयोः द्वयोः संसृष्टिः ॥ ६३३ ॥ ततोऽपि मर्मभेदकं अन्यद्वारा अवमाननं आह अवेति । अवगम्य ज्ञात्वा, अभिप्रायं हृद्तभावं आशयं कामुकनिष्कासनाय तदवमाननरूपं, स्वामिन्याः सेव्यायाः, परिजनः परिचारकादिनिकृष्टवर्गः, तिरस्कार्य अवधीरणीयं कामुकं, अवहसति अवहसितस्य विषयं करोति, अवहसितं तु-" फुल्लनासापुटं यत्स्यान्निकुंचितशिरोंसकम् । जिह्मावलोकिनयनं तच्चावहसितं मतम् ॥” इति रसार्णवसुधाकरे; ] तस्येत्यादि अतिनिंद्यत्वात् पंचकपर्दिकायोग्योऽपि न इत्यर्थः । [वराटिका कपर्दिका 'कोडी' इति भाषायां प्रसिद्धा, या पूर्व क्वचित् काश्यादौ अद्यापि अत्यल्पतममूल्यप्रतिनिधिनाणकत्वेन व्यवहारे स्वीकृता । तस्येत्यादि लोकोक्तिः । क्षुद्रैः परिजनैरपि अवहस्यमानो यो न जिगमिषुः स वराटिकावदतितुच्छः इति औपम्यं गम्यम् ॥६३४॥ अबुधं जडं विनिंदति तत्त्वेति । "यथा चित्ते तथा वाचि, यथा वाचि तथा क्रियाः ।" इत्यनुसारेण हृदयपूर्वकं वर्तनं अत्र तत्त्वं - ६३४ परिजनोऽप्रियं पुरुषं-व्यवहरति तिरस्कार्य (कापा)। व्यवहरति तिरस्कर्तु (१) ६३५ तत्त्वावहासमुग्धव्यवहतयोर्यो (कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com