SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । २०१ अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः । अभिमानवान् मनुष्यो योषितमूढामपि त्यजति ।। ६३१ ।। साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य । यन्नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥ ६३२॥ भार्थाथिता बालचुम्बनालिङ्गनानि च । सखीकण्ठग्रहः, श्वासो, वास:संयमनं मुहुः।।७॥ दर्शनं हस्तमुद्राणां, भ्रूविक्षेपः, प्रियं वचः । अंगुलीस्फोटनं, स्वीयपाणिना स्तनपीडनम् ॥ ८ ॥ नखैर्विलिखनं भूमेस्तृणच्छेदो रह:स्पृहा । भावानुरक्तां जानीयाचिहैरेभिनितम्बिनीम् ॥ ९ ॥ रसिको रमयेन्नारी रागान्धामनुरागिणीम् । निपुणो वर्जयत्येव दूरतः परिवर्जिताम् ॥ १० ॥” इति कामसमूहे ॥ संयोगे च गात्राणां चुंबनमर्दनादियोग्यानां कपोलकुचादीनां अंगाना, सद्भावेन प्रीतिपूर्व सोल्लासं, समर्पणं सम्यक संपूर्णतया प्रियाय दानं न, अर्थात् अंगसंकोचः क्रियते, तस्मिन् तादृशे, ] मुद्रिते निरर्थप्राये इत्यर्थः [ इति टिप्पणी, मुद्रितभावे मुद्रिताः अनुन्मीलिता: अविकसिता: भावाः अभिलाषादिमानसविकारा: यस्मिन् तादृशे, पशुकर्मणि मैथुने, "ग्राम्यधर्मों निधुवनं कामकेलि: पशुक्रिया । व्यवायो मैथुनं' इति हैम:, पशवः जडाः स्वाभिमानरहिता: वा, एवकार: अन्ययोगव्यवच्छेदार्थकः, न तु अन्ये इत्यर्थः, रज्यंते तेन संतुष्टाः हृष्टा वा भवंति । भावरहितं रतं पशूनां इव कामकंडूत्युपशममात्रफलं, अतः तादृशसंभोगवाचि पशुकर्म इति पदं परं समुचितम् । पशवः इति उपमेयान् जडान् पुरुषान् निगीर्य उक्तमिति अतिशयोक्तिः । पशुकर्मणि पशव एव रज्यंते' इति अनुरूपद्वयसंघटनात् समालंकारो व्यंग्यः ॥ प्रस्तुतार्थे क्षेमेन्द्रः-" परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् । पुरुषपशवो विमूढा रज्यंते योषितामधिकाः ॥" (३५०) इति कलाविलासे ॥ ६३० ॥ तद्विपरीतस्य साभिमानस्य करणमाह अवेति । अवधीरणया अवज्ञया तिरस्क्रियया, उपहतः घातितः, अवमानित इत्यर्थः । हीयमानः हानि तनुतां प्राप्यमाणः क्षीयमाणः । अभिमानवान् "मानश्चित्तसमुन्नतिः" ( इति अमरः ) तद्वान् मानी । योषितं नियं, ] ऊढां विवाहितां [ परिणीतां, स्वीयाम् । अपिना किमु वाच्यं सर्वसामान्यां स्वस्मिन् विरक्तां वेश्यां त्यजति इति अर्थापत्तिय॑ग्या । अनया मध्यमो वैशिक: नायकः उपलक्षितः, तथाच भावप्रकाशे" दृष्टे दोषे विरज्येत स भवेन्मध्यमः पुमान् ।" इति ॥ ६३१ ॥ तत्र चेष्टावमानमाह साक्षीति । ] अक्षिनिकोचः साभिप्राय: नेत्रनिमेषोन्मेषः, [तेन सहितं यथा स्यात्तथा साक्षिनिकोचं क्रियाविशेषणम् । सख्या: इत्यादि सख्या: हस्ते उपहासप्रदर्शिका Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy