________________
२९६
दामोदरगुप्तविरचितं
एकनिष्ठस्य तदादेः आभासत्वं ततश्च विरसत्वं स्पष्टम् । तथाहि मालविकाग्निमित्रे शृंगारदीक्षागुरुः श्रीकालिदास:-"अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न, मां प्रति । परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ॥" (३ । १५) इति; ( रतिः शृंगारः, मां प्रति अस्मन्मते इत्यर्थः । ) एवं एकाश्रयरागस्तु शंगाराभास एव । तदुक्तं-" एकत्रैवानुरागश्च, बहुसक्तिश्च योषितः । अनौचित्यप्रवृत्तत्वाच्छंगाराभास इष्यते ॥” इति । (एकत्र पुरुषे स्त्रियां वा, अधिकरणे सप्तमी; चः पक्षान्तरे, एकस्या: कामिन्याः अनेक पुरुषेषु रतिः अनुरागः, स शृंगाराभासः । " एकत्रैवानुरागः" इति पदानां पर्यायेण एकत्र रागाभावः इत्यर्थः; पूर्वानुरागावस्थायां नायके नायिकायां एव वा आदौ रागे जातेऽपि अन्यत्र तदानीं तत्प्रागभावेऽपि दर्शनादिकारणैः रागोत्पत्तिसंभावनया न आभासत्वं, रागाभाव इत्यत्र अभावशब्दस्य प्रागभावं विहाय अत्यंताभावप्रध्वंसाभावपरत्वात् । केचित्तु स्त्रिया एव रागाभावे आभासत्वं मन्यते, तन्न रुचिकर, पुरुषेऽपि रागाभावे रसस्य अनास्वादनीयत्वात् ॥ " बहुसक्तिश्च योषितः " इत्यत्र एकस्याः अनेकपुरुषगतरागत्वे शृंगाराभासत्वं, तदानीं रागस्य खंडश: खंडितत्वात् हीनांगत्वात् । इदं पुंसोऽप्युपलक्षणं, तस्य अनेकत्र रागे तादृशत्वात् ॥ आभासत्वे हेतुमाह 'अनौचित्यप्रवृत्तत्वात्' इति, यथोक्तं-" अनौचित्यादृते नान्यद्रसभंगस्य कारणम् ।" इति; अनौचित्यं तु प्रकृते रसविषयकं, तच तत्तद्रसानां सामग्रीरहितत्वे एकदेशयोगित्वं, रसप्रतिकूलत्वं वा; द्विविधमपि तत् उद्वेगकरम् । केचित्तु अनौचित्येन न रसात्महानिः, अपि तु सदोपत्वं, तेन च आभासव्यवहारः इति मन्यन्ते । अनौचित्यप्रकाराः प्रदर्शिता: साहित्यदर्पणे-" उपनायकसंस्थायां, मुनिगुरुपत्नीगतायां च । बहुनायकविषयायां रतौ, तथाऽनुभयनिष्ठायाम् ॥ प्रतिनायकनिष्ठत्वे, तद्वदधमपात्रतिर्यगादिगते । शंगारेऽनौचित्यं; रौद्रे गुर्वादिगतकोपे ॥" (३।२६३-२६४ ) इति ॥ शृंगाराभासोदाहरणं तु-" तद्वक्त्रं यदि मुद्रिता शशिकथा, तच्चेस्मितं का सुधा, तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद्रोि धिङ्मधु । धिकंदर्पधनुर्भुवौ यदि च ते; किं वा बहु ब्रूमहे, यत्सत्यं पुनरुक्तवस्तुविरस: सर्गक्रमो वेधसः ॥” इति । इयं स्वानुरागविमुखीं सीतां उद्दिश्य रावणस्य उक्तिः । (अत्र सीतायां रावणविषयरागात्यंताभावात् आभासत्वं, रावणस्य च सीताविषयकं स्पृहणीयताशयत्वं प्रतिपाद्यते, न तु कश्चिद्रसोपनिबंधः । इयमेव उक्ति: यदि रामस्य मुखे स्यात् तदा न रसाभासः, स्वानुरक्तां उद्दिश्य तस्याः परमौचित्यात् ॥)॥ प्रसंगादत्र शंगाररसाभासविषये किंचित् विचार्यते ।-अत्र शंगाररसाभासे आभासबीजं तु-अस्य रसस्य आलंबनविभावः नायकः नायिका च द्वौ समुच्चये
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat