________________
कुट्टनीमतम् ।
१९७
नैव, न पृथक्तया, यतः नायकसमवेतायां रतौ नायिका विषयः, नायिकासमवेतायां च नायकः इति उभयस्य विषयभूतस्य रतौ असाधारणकारणत्वं, अतः रागस्य एकत्र अवस्थितौ यथा खंडितैकपक्षस्य पक्षिण: उड्डयनं न भवति, तथा एतद्विधे शंगारे एकपक्षखंडिततया रत्युद्बोधः न प्रजायते, न वा रतिः रसप्रयोजकं स्थायित्वं भजते, इति ॥ स्वीयादित्रिविधासु नायिकासु, अनुकूलादिचतुर्विधेषु नायकेषु, ग्राम्यादिषु अधमपात्रेषु, पश्वादिषु च तस्य व्यवस्था एवम् । धर्मशृंगारपराया: स्वीयायाः साध्वीत्वेन शुद्ध एव शृंगाररसः ॥ कामशृंगारपराया: परकीयाया: शृंगार: पूर्वोक्तप्रकारेणैव न आभासतां भजते, तत्र अनुरागस्य उभयनिष्ठत्वात् प्रौढित्वात् च । अतः भाणाख्यरूपके वीथ्याख्योपरूपके च परकीया प्रायः नायिकात्वेन समादृता दृश्यते । तस्याः बहुसक्तित्वे तु आभास एव । एवं काव्येषु तत्रतत्र परकीयावर्णनं रसदृष्टया संगच्छते । परंतु पुरुषस्य परस्त्रीविषयतया स्त्रियाः अपि परपुरुषविषयतया श्रोतृणां अधर्मपरिणामः स्यात् इति धर्मदृष्टया अनौचित्यात् तत् हेयं इति केचित् मन्यते । किंच पंचसु अपि पांडवेषु द्रौपद्यनुरागस्य महाभारतोक्तरीत्या धर्म्यत्वात् न स शृंगाराभासः । यत्तु रसाभासादपि चमत्कारानुभूतिं मन्वानः कर्णभूषणकार: गंगानंद:-"यद्यपि परकीयायां न रसाभासः, स्वीयायामिव तद्वर्णनं निर्विगानं महाकविभिः क्रियते, तच्चमत्कारोऽपि तादृश एव, तथापि ममैवेयमस्या एव अहं इति स्नेहाख्या रतिः सा च परकीयायामाभासरूपैव भ्रमत्वात् ।" इत्याह तत्र उत्तरांशो न रमणीयः, कचित् परकीयानुरागस्य कारणवशात् चिरस्थित्यभावेऽपि रागकाले तस्य मात्रयाऽपि न्यूनत्वाभावात् आभासस्य अनुभवविरुद्धत्वात् ॥ अर्थशृंगारपरायाः सामान्यायाः तु अर्थहरणैकदृष्टित्वात् रागबीजस्य अभाव एव । तथापि नैवं सर्वत्र, सृष्टिवैचित्र्यात् । तथाहि विक्रमोर्वशीये उर्वश्याः पुरूरवसि, मृच्छकटिके वसंतसेनायाः चारुदत्ते, प्रकृतकाव्ये च हारलतायाः सुंदरसेने शुद्धः स्वीयानुरागप्रतिस्पर्धी अनुरागः प्रसिद्धः । तथाच वेश्यायाः रक्ता विरक्ता च इति भेदद्वयं, तत्र आभासः विरक्ताविषय एव, न अन्यत्र । अतः सर्वथा भावानुबंधाभावे एव नायिकात्वपराहतेः कचित् प्रकरणाख्यरूपकभेदे प्रहसने वीथ्याख्यरूपकभेदे च वेश्या अपि नायिकात्वेन स्वीकृता । उक्तं च " नायिकाकुलजा, कापि वेश्या, क्वापि द्वयं क्वचित् । " ( ६।२२६) इति साहित्यदर्पणे । ( तेन प्रकरणं त्रिविधं भवति; कुलजा मालतीमाधवे, वेश्या कामदत्ते, द्वे अपि मृच्छकटिके ) ॥-अथ नायकभेदेषु एकनिष्ठस्य अनुकूलस्य न रसाभास:, तदनु
रागस्य अपंकिलत्वात् । तथापि तस्य पुत्रमरणशोकावस्थायां स्वकांतायामपि रतिShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com