________________
कुट्टनीमतम् ।
व्याजेन कालहरणं, स्वापावसरे विवर्तनं शयने । निद्राभिभवख्यापनमुद्वेगः सम्मुखीकरणे ।। ६२१ ॥ गुह्यस्पर्शनिरोधः, स्वभावसंस्थापनाऽनुयोगेषु । चुम्बति वदनविकम्पनर्मालिङ्गति कठिनगात्रसङ्कोचः ।। ६२२ ।। असहिष्णुत्वं महणनकर रुहदशनक्षतिप्रसङ्गेषु । दीर्घरतौ निर्वेदः, स्वपिहीति रताभियोजके भूयः ।। ६२३ ।।
१९३
इतः पंचकेन रहसि रतमधिकृत्य सूत्रोक्ता: उत्सूत्राश्च उपदेशाः उच्यन्ते - व्यानेनेत्यादिना । व्याजेन अपदेशेन 'बहाना' इति भाषायां, "व्याजो मिषं छलं छद्म निभं च कपटोऽस्त्रियाम् । ” इति वैजयंती, कालहरणं तत्समीपगमने रतसमये वा तददानाय विलंबकरणम् | स्वापावसरे निद्रारंभकाले, विवर्तनं शय्यायां परिवृत्य पृष्ठदर्शनेन शयनम् । सम्मुखीकरणे आकृष्य स्वाभिमुखीं कुर्वाणे, निद्राभिभवः निद्रया अभिभवः आक्रान्तत्वं, यद्वा निद्रायाः अभिभवः प्राप्तायाः निद्रायाः नाशः, तस्य ख्यापनं कथनं, तेन उद्वेगः व्याकुलचित्तता वा, प्रकाश्यः इति शेषः ॥ ६२१ ॥ गुह्यस्य अनंगमन्दिरस्य । ] अनुयोगेषु प्रश्नेषु, [ “ प्रश्नेऽनुयोगः " इति उपसर्गवर्गः, स्वस्य भावः प्रकृतिः तत्र संस्थापना पुनरानयनेन स्थिरीकरणं, ' अस्मिन् विषये तव कः संबंध, त्वं कः प्रष्टा' इत्याद्युक्त्या अनादरेण वा भावशान्त्यापादनं संयमनं वा स्वभावसंस्थापना || बाह्यरतमधिकृत्य तु चुंबति चुंबनाय प्रवृत्ते, वदनविकम्पनं मुखविधूननं यथा चुंबनं न घटेत । आलिंगति आश्लेषाय उद्युक्ते, कठिनगात्राणां कूर्परादीनां संकोच: संकोचनं, यद्वा कठिनः अभेद्यः एवंप्रकारक : गात्रसंकोचः हस्तपादाद्यवयवानां उपसंहरणम् ॥ अत्रार्थे कामसूत्राणि - " जघनस्य रक्षणम् । मुखस्यादोनम् । परिष्वंगे भुजमय्या सूच्या व्यवधानम् । स्तब्धता गात्राणाम् " || ( ६ । ३) इति । ( एतट्टीकायां जयमंगल :- " भुजौ व्यत्यस्य स्तनस्कंधयोर्निदध्यात्, ततो भुजावेकीकृत्य सूचीव सूची तया व्यवधानं परिष्वंगस्य । ” इति ) ॥ ६२२ ॥ असहिष्णुत्वं अक्षमत्वं सव्यथत्वं इत्यर्थः । प्रहरणानि ताड़नानि व्याख्यातानि (आ. ३७७) । कररुहाः नखाः ॥ आन्तररतं अधिकृत्य तु-दीर्घरतौ चिरकालविसृष्टिलक्षिते सुरते, निर्वेदः ग्लानिः खिन्नचित्तता वा । भूयः पुनः पुनः, रताभियोजके बाह्यं आन्तरं वा रतं प्रति परिचयं कुर्वति, स्वपिहि स्वापं कुरु, न रतोद्यमं,
-
1
६२१ कालकरणं ( गो . ) । भवाख्या ० ( प ) भवस्वा ( का ) ६२२ स्वभावसंस्कारताभियोगेषु ( प ) । वदन विधूनन ( 9 ) वियोजन ( कापा ) ६२३ दीर्घरते ( गो .का ) स्वपिद्दीति वचोऽभियोगके ( प )
१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com