________________
१८३
कुटनीमतम् । जलधौततिलकरचनां गलदम्भोलुलितकेशान्ताम् । तिम्यत्तनुलीनातिचण्डानिलसलिलपातकण्टकिताम् ॥ ५९७ ॥
अष्टनायिकालक्षणे, "मदेन मदनेनापि प्रेरिता शिथिलत्रपा । योत्सुकाऽभिसरेत्कान्तं सा भवेदभिसारिका ॥ " इति वसंतराजीये च । या तु एवंविधा कान्तमेव अभिसारयति साऽपि अभिसारिका अभिसारयित्री वा उच्यते; तथाहि विक्रमोर्वशीये ( अं. ३ ) उर्वशीवाक्यं सखी प्रति-"त्वमानय तं शीघ्रं, नय मां तस्य वा सुभगस्य वसतिम् ॥" इति। अत्रेदं बोध्यं-अष्टस्वपि नायिकाभेदेषु नायकदृष्टया अभिसारिकाया एव प्राधान्यं, नायिकायाः स्नेहस्य पराकाष्ठाप्रत्यये नायिकास्वयंगमनात् प्रमाणान्तराणां दौर्बल्यात् । अत: उक्तमपि केनापि-" संस्कृतात्प्राकृतं मिष्टं, ततोऽपभ्रंशभाषणम् । ततः प्रियतरा वेश्या, सर्वतश्चाभिसारिका ॥” इति ॥ इयं सोत्प्रासोक्तिः ( सोपहासं वचनं इत्यर्थः ।) ॥ ५९६ ॥ अभिसारनिषेधाय मात्रा वर्णितां सम्भावितां मालतीदुरवस्थां अनुवदति जलेल्यादिभिः षद्भिः अन्तःकुलेकन । तत्रादौ द्वाभ्यां वर्षानिशाभिसारिकावर्णनम् । जलेत्यादीनां द्वितीयान्तपदानां 'द्रक्ष्यन्ति सुकर्माणः' इत्यत्र अग्रे संबंधः ॥ जलेन मेघधाराभिः, धौता विलुप्ता प्रनष्टा, तिलकरचना यस्याः सा, ताम्। तिलकं पत्रवल्यादि आलेख्यं चित्रकं, तस्य रचना; सा च प्रायः स्त्रीणां ललाटे कपोलयोः कुचयोश्च भुजशिखरयोः कण्ठे च शोभावर्धनार्थ क्रियते सख्या, स्नेहप्रकर्षद्योतनार्थ प्रियेणापि, यथा गीतगोविन्दे-" रचय कुचयोः पत्रं, चित्रं कुरुष्व कपोलयोः।" ( १२।९) इति । तत्रापि कुचयो: आम्रादिफलसाम्यद्योतनाय पत्रवल्यादीनां, कपोलयोः चुम्बनप्रधानपात्रत्वदर्शनाय शुकादिपतत्रिणां, कपाले च सौभाग्यप्रकाशाय ललाटिकाख्याः तोरणादीनां आकारा: चित्रीयन्ते इति भाव्यम् ॥ गलत् निःपतत् , अम्भ: जलं, तेन लुलिताः मर्दिताः केशान्ता: यस्याः सा ताम् । प्रशस्ता: केशाः केशान्ताः, “ अन्तशब्दोऽत्र प्रशंसावचनः, यथा-'धूपेन संत्याजितमाभावं केशान्तमन्तःकुसुमं तदीयम् ।' इति ।" इति हरविजयटीकायाम् ( ५।१७ ) । तिम्यन्ती 'तीम्यन्ती' अपि आर्दीभवंती, या तनु: 'तनू: ' अपि शरीरं, तस्यां लीना संलग्ना अत एव स्वेन अदृश्यमाना, आवृति: आवरणवस्त्रं यस्याः सा, तथा चासो, वर्षाकालीनझंझामरुता धारावर्षेण च ] कण्टकिता सरोमाञ्चा [च, तां तादृशीम् । तथा चोक्तं"रोमाञ्चः क्रोधरुग्भीतिहर्षशीतादिभिर्भवेत् । " इति । अत्र शरीरदशा कथिता ।
___ ५९७ दरधौत (गो)। केशाग्राम् (प)। तीम्यत् (प)। लीला (प.का)। सलिलघात (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com