________________
१८४
दामोदरगुप्तविरचितं
अविभावितसमविषमां प्रस्वलदङ्घ्रि सहायकरलग्नाम् । पुरतोऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम् ।। ५९८ ॥ अन्यस्त्रीषु च पत्यौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् । तत्कालयोग्यपरिजननिवेदितामिति विकल्पसदृशविधौ ।। ५९९ ॥ किं प्रेम्णोऽयं महिमा किमुतानन्त्यं धनप्रलोभस्य । किंवाऽन्यतः प्रवृत्ता प्रवेपिता वातवर्षेण ॥ ६०० ॥
जातिरलंकारः ॥ ५९७ ॥ अपि च- अंधकारे अलक्षितनिम्नोन्नतसमभूतलां, अत एव प्रस्खलन्तौ अंधी चरणौ यस्याः तां पतन्तीं पतीपत्यमानां वा, अत एव च सहायस्य सख्युः परिचारकस्य वा करे लग्नां धृततत्करावलंबाम् । ] प्रमाणं अवधिः । साध्वसं भयम्।[ पुरत इत्यादि ' गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा' (बा. रा.) इत्यर्थः ॥ अनया मध्येमार्ग भवित्री दशा कथिता ॥ ५९८ ॥ युग्मेन कामुकगृहप्राप्तिं वर्णयति अन्येत्यादिना । अन्यस्त्रीषु स्वीयासु, अत एव पत्यौ इति पदं, व्यग्रे व्यापृतचित्तत्वे, तद्गृहं ] कृच्छ्रेण [ वर्षाबाधया ] अतिकष्टेन, [ कथमपि येन केनाप्युपायेन प्राप्ताम् । तत्कालयोग्यपरिजनेन अंत:पुराधिकृतेन रहसि अनियन्त्रितप्रवेशेन आभ्यंतरिक्रेण अन्तःपुरपरिजनेन निवेदितां कृतविदितागमनां, कथं निवेदितां इत्याह ] विकल्पसदृशविधौ नानाविधसंकल्प कल्पनानुरूपं, [ यद्वा कल्पनोचितप्रकारे अनेककल्पनाविषये इत्यर्थ:, इति कथयिष्यमाणस्वरूपे । अत्र ' विकल्पसहसचिवैः ' इति पाठः सरलतरः-विकल्पसहा: विकल्पं तर्के कुर्वाणाः ये सचिवाः भृत्याः, " सचिवो भृत्यमंत्रिणोः । " इति विश्वलोचन:, तै: तत्कालोचितपरिजनद्वारा, निवेदितां इत्यन्वयः ॥ भृत्याः बाह्याः कर्मकराः, परिजनः आन्तरिक : इति सेवक विभागः ॥ ५९९ ॥ अज्ञातायाः तरुण्याः आगमनदर्शनेन भृत्यविकल्पान् आह किमिति । किं प्रश्ने, किमियं प्रेमाकृष्टा धनलुब्धा वा इति पूर्वार्धस्य अर्थः । किंवा विकल्प्य प्रश्ने, इयं, वातवर्षेण वातश्च वर्षे च वातवर्षे, समाहारद्वन्द्व:, तेन प्रवेपिता प्रभूतं कंपिता सती, अन्यतः प्रेमलोभव्यतिरिक्तात् अज्ञायमानात् कारणात्, प्रवृत्ता अत्र आगता । अस्या आर्यायाः पूर्वस्यां ' इति ' इति पदेन सम्बन्धः ॥ ६०० ॥
५९८ विषमप्र ( गो. का. ) । ५९९ अन्यस्मिन् प्रेमपती ( प ) अ प्रेतपती (कापा) । तत्कालोचितपरि० (गो) विकल्पसहसचिवैः (१) ६०० किमुतात्यन्तं ( गो . का . ) । प्रवेशिता (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com