________________
कुट्टनीमतम् । चक्राह्वपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् ।
पारावतावगृहनमाचरति सुमध्यमा यथावसरम् ॥ ५८१ ॥ घनत्वं व्यञ्जितम् । ) एवं विशेषकेण तस्या विविधेङ्गितनिरूपणेन तस्याः स्वस्मिन्नेवानुरागः इति प्रतिपादितम् ॥ ५८० ॥ अनुरागप्रवृत्तानां बाह्यरतप्रकाराणां आमुखभू. तस्य आलिंगनस्य भेदादिषु तस्याः प्रमोदनं कौशलं स्मृत्वा प्राह चक्रेति । परिष्वजनं समाश्लेषः परिरंभः अवगृहनं आलिंगनपर्यायाः । ] चक्राह्वपरिष्वजनादयः आलिंगनभेदाः । [ चक्राह्वः चक्रवाक: 'चकवा' इति प्रसिद्धः पक्षी, हंस: प्रसिद्धः, नकुलः सर्पवैरी लघुः चतुष्पाद् , पारावत: ' पारेवा । ' कबूतर ' इति वा प्रसिद्धः । तेषां आश्लेषप्रकारा: तत्तन्नामपूर्वकं ख्याताः प्रत्यक्षग्राह्याः कामशास्त्रेषु अनुपदिष्टाः । एवमेव अपराणि वात्स्यायनीये अनुक्तानि पद्मचुंबनवेणुदारितचुंबनादीनि गौणीसुतादिकामशास्त्रेषु उपलभ्यते । एवं “तत् (आलिंगन) सप्तधा यथा-आमोदालिंगनं, मुदितालिंगनं, प्रेमालिं. गनं, आनंदालिंगनं, रुच्यालिंगनं, मदनालिंगनं, विनोदालिंगनं, इति कामशास्त्रम् । " इति शब्दकल्पद्रुमः ॥ तत्र चक्रालिंगनं रथाङ्गपक्षिणोरिव शरीरसंघट्टनरूपं, हंसालिंगनं हंसयोरिव श्लेषविश्लेषयोः पुनरावृत्तिमयं; नकुलालिंगनं नकुलवद्गाद चिरकालं च यत् क्रोडीकरणं तत् , यथा योगवासिष्ठे-" गलदङ्गं घनस्नेहं मुञ्चद्वाष्पं स्फुरत्स्पृहम् । आलिलिंग चिरं कान्तां नकुलो नकुलीमिव ॥" (६।१०९।१३-१४) इति । गलदंगं गाढं इत्यर्थः । ) पारावतावगूहनं साम्मुख्येन मुखसंयोजनमात्रम् । सुमध्यमा शोभनो मध्यभागः कटिप्रदेशो नाभ्याः आरभ्य अधोगतः उदरभागः यस्याः सा, शोभनत्वं च तस्य तनुत्वात् त्रिवलिभूषितत्वाच्च; तथाहि-" तनुत्वरमणीयस्य मध्यस्य च भुजस्य च । अभवन्नितरां तस्या वलय: कान्तिवृद्धये ॥ " इति; राष्ट्रौढवंशमहाकाव्ये च"वितानवेदी-हरिणाधिराज-देवाङ्गनानामपि मध्यभागः । इति त्रयीयं विजितेति यासां मध्यो वलीभिस्तिसृभिः शशंस ॥ " (१४।३२) इति । (“परिष्कृता यज्ञार्थं पशुबन्धनाय यज्ञपात्रासादनाय चाति ( च जात १) संस्कारा भूमिर्वेदिरुच्यते, सा च डमरुकाद्याकारा पिण्डिका ।" इति शब्दकल्पद्रुमे । अनेन अन्यत्र यत्र मध्यभागवर्णने वेदिरिति उपमानं मुद्रिका इत्यर्थे कैश्चिट्टीकाकारैर्व्याख्यातं तदसमञ्जसं ज्ञेयम् ।) अपि च-" प्रद्युनेन जगजयाय विधृतं मध्ये दृढं मुष्टिना तन्वंग्या रसनिर्भरं वपुरिदं मुख्यं धनुः कान्तवम् । तेनोवं सरसश्चचाल कुचयोाजेन, मुष्टेः पुनर्मुद्राणां मिषतस्तदा परिणतं तस्मिन् वलीनां त्रयम् ॥” (११६९) इति मदालसाचम्प्वाम् । ( प्रद्युम्नः कामः, मध्ये दृढं धृतं अत एव मध्यं संकुचितं तन्जातं, रसनिर्भरं अत एव मुष्टिनिष्पीडनेन रसः ऊर्ध्व
५८१ चक्राङ्के (प)। पारापतावचुम्बन (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com