________________
१७४
दामोदरगुप्तविरचितं नार्थपरो नयनरसो, न पराशयवेदने विचक्षणता । नासौष्ठवं प्रसङ्गे, न चान्यगुणकीर्तनेषु भारत्याः ॥ ५७९ ॥ नापरपुरुषश्लाघा, न त्यागः कालदेशवेषस्य । वैदग्ध्यजन्मभूमेगुरुजघनभरेण मन्दयातायाः॥५४०॥(विशेषकम् )
अर्थो द्रव्यादिरूपं प्रयोजनं [ तस्य परः प्रवणः तद्गतः,] नयनरस: नेत्रासक्तिः [स्निग्धदर्शनं न; सा न धनलुब्धा इत्यर्थः; परेषां अन्येषां आशयाः अभिप्राया: कूटाः अन्यथा वा, तेषां ज्ञाने ग्रहणे, विचक्षणता कौशल्यं न, तस्याः अतिसरलत्वात् ; न पराशयेत्यादिना मौग्ध्यबोधनद्वारा धौाभावः प्रतिपादितः । ] प्रसङ्गः प्रवृत्तिः, [प्रसंगे कार्यकाले असौष्ठवं अरमणीयत्वं ग्राम्यत्वं वा न; एवं परेषां गुणकीर्तनेषु गुणश्लाघासु अपि, भारत्याः वाचः, असौष्ठवं न ॥ ५७९ ॥ अपि च मां विहाय अन्यस्य कस्यापि प्रसंशनं अपि न, अनेन तस्याः स्वस्मिन्नेव अनुरागः सूचितः; कालदेशवेषस्य कालोचितस्य देशोचितस्य च वेषस्य नेपथ्यस्य त्यागः न, अनेन तस्याः नेपथ्यप्रयोगकलाविज्ञानं सूचितं, तथा च कामसूत्रटीकायां गीतादिचतुःषष्टयंगविद्याव्याख्याने जयमंगल:-" नेपथ्यप्रयोगा इतिदेशकालापेक्षया वस्त्रमाल्याभरणादिभि: शोभार्थ शरीरस्य मण्डनाकाराः।" इति । इदं सर्व कीदृश्याः तस्याः ? वैदग्ध्यजन्मभूमेः वैदग्ध्यस्य रसादियोगिचातुर्यस्य उत्पत्तिस्थानभूताया:, अनेन तस्या: मानसगुणोत्कर्षः सूचितः; गुरोः अलघोः, जघनस्य कटिपुरोभागस्य ‘पेटु' इति भाषायां प्रसिद्धस्य, भरेण भारेण, मन्दं शीघ्रविरुद्धं मन्थरं यातं गमनं यस्याः सा, तस्या: गजगामिन्या इति यावत् , यथोक्तं भिक्षाटनकाव्ये" किं चित्रमत्र जघनं परमुद्वहंत्या मंदीभवंति यदि ते गतयो वरांगि । यद्वीक्षणेऽपि गतधैर्यगुणा युवानो गंतुं मनागपि पुनर्न हि शक्नुवंति ॥ (५।९)" इति । अनेन तस्याः शारीरगुणोत्कर्षः सूचितः; जघनं च घनं प्रशस्तं, तथाहि कादंबरीवर्णने भट्टबाणः-"प्रजापतिदृढनिष्पीडितमध्यभागगलितं जघनशिलातलप्रतिघातालावण्यस्रोत इव द्विधागतमूरुद्वयं दधानां " इति । तथा मानवेदचंपूकाव्ये शकुंतलावर्णने-" पयोधरधराघराधित्यकापतल्लावण्यतरंगिणीचंडवेगोत्खातपिचण्डस्थलसंश्लेषादिव पीनपीनेन पुलिनदेशदेशीयेन .... घनतरेण जघनभरेण जगदन्तरासीनजनतान्तरंग तरंगयन्ती (स्त. ४.) इति ॥ ( अनेन रुपकोत्प्रेक्षोपमालंकाराणां संकरेण उदरस्य क्षामत्वं जघनस्य च
५७९ लपनरसो (१)।न वान्य० ( कापा) नोल्बणगुणकीर्तने कथावसरः (प) ५८० न त्यागो देशकालपात्रस्य (प)। वैदग्ध्या (प.)। यानायाः (प)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com