________________
कुट्टनीमतम् ।
न ग्राम्यं परिहसितं, नाविभ्रमतरलिताक्षिविक्षेपः ।
सुरतानुद्योगविधौ दोहददानं न पुष्पबाणस्य ॥ ५७८ ॥ त्रिभिर्विशेषकेण तस्या अन्याभ्यो निषेधमुखेन व्यतिरेकमाह नेत्यादि । परिहसितं परिहासः नर्मकेलिरूपहासक्रीडा, ग्राम्यं हालिकाद्यविदग्धमात्रप्रयोज्यं न, नर्मवती सा इति यावत्, “ अग्राम्यपरिहासोक्तिर्नर्म इत्यभिधीयते । " इति वचनात् । अविभ्रमः विलासरहितः, चासौ तरलिताक्षिविक्षेप: चञ्चलनेत्रपात: न, सदैव सविलासमीक्षते इत्यर्थः; अत्र अविमृष्टविधेयांशः पददोषो भाति यतः अविभ्रमत्वं विधेयाङ्गं, तच्च समासे गुणीभावात् उद्देश्यत्वप्रतीतिकृत् इति । तस्याश्च सुरते सम्प्रयोगे अनुद्योगविधौ अप्रवृत्तिकर्मणि सुरतहीनायां तस्यां इति यावत् , पुष्पबाणस्य कामदेवस्य, दोहददानं-दोहदं वृक्षविशेषाणां पुष्पादिसमृद्धयर्थ यत् द्रव्यं दीयते तत्, " दोहलं(दं) तु नपीच्छायां श्रद्धासंज्ञे, स्थावराणां पुष्टयर्थ यत् प्रदीयते ।" इति केशवः, तच्च प्रियंग्वादिदशवृक्षाणां भेदेन दशविधं, यथोक्तं—“ स्त्रीणां स्पर्शात्प्रियमुर्विकसति, बकुलः सीधुगण्डूषसेकात् , पादाघातादशोकस्तिलककुरबको वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्, पटुमृदुहसनाच्चम्पको, वक्त्रवाताच्चूतो, गीतान्नमेरुर्विकसति च, पुरो नर्तनात्कर्णिकार: ” ॥ इति; स्पर्शादिदशानां सुरतांगत्वेन, सर्वान् सुरतांगान् उपलक्ष्य मूले सुरतमेव उपात्तं इति शेयं, तस्य दानं वितरणं न भवति इति शेषः; “ मूलं नास्ति कुतः शाखा ” इति न्यायेन अलब्धसुरतायां तस्यां कामदेवस्य पुष्टिलाभो अभिलाष( मनोरथ )संपूर्णीकरणं वा न भवति, स: असन्तुष्टः अकृतकृत्य एव वर्तते इति भावार्थः; तस्याः सुरतोद्योगे एव काम: पूर्णाभिलाषो जायते इति भावः ॥ यथोक्तं भर्तृहरिणा शंगारशतके-" आमीलितनयनानां य: सुरतरसोऽनुसंविदं भाति । मिथुनैमिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥" इति । ( आमीलितं ईषन्मुकुलितं, संवित् ज्ञानं, अवधारितं निश्चितं, अवितथं सत्यं, कामनिर्वहणं कामदोहदपूर्तिः कामपुरुषार्थस्य प्रतिष्ठापनं, इति ॥)॥ “ सुरतोद्योगनिरोधः " इति पाठे तस्या वामत्वं इत्यर्थः, स च कामस्य दोहददानं अभिलाषपूरक तृप्तिदायकं वा न भवति, प्रत्युत कामवर्धकमेव भवति, अपरासां तादृशनिरोधः अनिपुणतया कामुकानां वैरस्याधायकः इत्यर्थः ॥ अत्र हीनधर्मनिषेधद्वारा गुणाधिक्यरूपो व्यतिरेकोऽनुप्रविशति, तेन न अन्यासां एवं इति तस्या व्यतिरेको ध्वन्यते ॥ ५७८ ॥
५७. सुरतोद्योगनिरोधः (प) सुरतावुयोगविौ ( काग) पुरतोयोगनिधौ ( कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com