________________
१७२
दामोदरगुप्तविरचितं __ ललिताङ्गहारजृम्भितवलितस्मितवेपनानि मालत्याः ।
पश्यञ्जहाति कामो रतिमोहनचेष्टितेषु बहुमानम् ॥ ५७७ ॥ कुहरितादीनां कारणत्वेन कार्यकारणयोः अभेदेन तथोक्तिः । वीणादेः कुहरितादिकुहरितादयः गाने वर्णालंकारविशेषाः, तेषां लक्षणानि भरते ( १९ । ४५-४६ )" रेचितः शिरसि शेयः, कम्पितस्तु कलात्रयम् । कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥” इति, इमे वीणादिवाद्ये कुहराद्याख्यहस्तव्यापारैः उद्भाविताः तत्तत्संज्ञां लभन्ते, कुहरहस्तश्च निर्दिष्ट: संगीतरत्नाकरे-“करस्य किंचित्सांगुष्ठसकलांगुलिकुंचने । कनिष्ठांगुष्ठसंस्पर्शस्तंत्र्याः स्यात् कुहरः करः ॥” (६।८७ ) इति । तान् जडान अनेन मूकान् मूर्खान् इति अर्थः सूच्यते, "मूर्खे मूके हिमग्रस्ते जडः” इति विश्वलोचनः, करोति ॥ अत्र उपमानभूततन्त्रीवाद्यस्वरेभ्य: उपमेयभूतानां तस्याः स्वरविशेषाणां आधिक्यसूचनात् व्यतिरेकालङ्कारो व्यङ्गयः । “व्यतिरेको विशेषश्चेदुपमानोपमेययोः” इति च तल्लक्षणं कुवलयानन्दे । वीणादीनां च वस्तुतः जडत्वेऽपि श्लेषमूलकारोपः, नैपुणं जडान् करोति इत्यत्र कुवलयानन्दानुसारेण विभावनाविशेषः (पञ्चमी विभावना), "विरुद्धात् कार्यसम्पत्तिदृष्टा काचिद्विभावना ।" इति लक्षणात्, विरोधाभासश्च, इति तेषां संसृष्टिः ॥५७६॥ मालत्याः ये ललिता: सुकुमाराः सुन्दरा वा, इदं विशेषणं लिङ्गविपरिणामेन वेपनान्तप्रत्येकशब्दान्वयि; यद्वा “ सुकुमारतयाऽङ्गानां विन्यासो ललितं भवेत् ।" (३।१०५) इति साहित्यदर्पणे लक्षितं तानि; अङ्गहारः अङ्गं हियते इतस्ततः चाल्यते यत्र स: अङ्गहारः अङ्गविक्षेपः, "अङ्गानामुचिते देशे प्रापणं सविलासकम् ।" (७।९९६) इति सङ्गीतरत्नाकरे उक्तः सविलासं सौचित्यं शिरोहस्तपादाद्यङ्गचालनात्मकः; यद्वा 'गर्बा' इति भाषायां प्रसिद्ध स्त्रीणां वलयितवृन्दगाने लास्याङ्गविशेषः, यथा लक्षितः संगीतरत्नाकरे—“ सतालललितोपेता क्रमात्कार्या द्वयोर्नतिः । धनुर्वदङ्गहारः स्यादिति निःशंकभाषितम् ॥” (७/१२२३) (द्वयोः ताललययोः, क्रमात् अनुकरणक्रमेण इत्यर्थः; निःशंकः शार्ङ्गदेवः ॥ ) वलितानि वलनानि विवर्तनानि; स्मितानि मन्दहास्यानि, " स्मितं चालक्ष्यदशनं हक्कपोलविकासकृत् । " (२।२३०) इति रसाणवसुधाकरे लक्षितं; वेपनानि हर्षत्रासक्रोधादिजनितानि कम्पनानि; तानि च स्वभावभूतानि न रताङ्गभूतान्यपि वीक्ष्य, मदनः, रतिः स्वभार्या तस्याः मोहनचेष्टितानि मोहनानि
चेतोहरत्वात् इन्द्रियव्यापारनिरोधीनि, न तु सुरतानि अप्रस्तुतत्वात् , चेष्टितानि ललितादिकरणानि, तेषु बहुमानं श्रद्धां गौरवबुद्धिं वा, जहाति त्यजति, मालतीचेष्टिताग्रे रतिचेष्टितानि कामदेवस्य रमणीयानि न भान्ति इत्यर्थः । व्यतिरेकालकारो व्यङ्गयः॥५७७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com