________________
१७०
दामोदरगुप्तविरचितं
आविर्भवदात्मभवक्षोभक्षतधीरता घनं रभसात् । विगलितकुचयुगलाटतिरालिङ्गति मालती धन्यम् ॥ ५७१ ॥ निर्दयतरौष्ठखण्डन सव्यथहुङ्कारमूर्छितं सुरते । अहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥ ५७२ ॥ स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् । आबद्धसुरतसङ्गरविमर्दसंक्षोभिता दयिता ॥ ५७३ ॥ गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसम्मोहम् । शिथिलीकृता तु किञ्चिद्विविधविकारं समुच्छ्रसिति ।। ५७४ ।।
"
नान्तरं” ( बृहदा० ४।३।२१ ) इत्यादि || ] ५७० ॥ [ पुनरपि तदालिङ्गनं एव प्रशंसति आविरिति । ] आत्मभवक्षोभः मदनविकारः [ आविर्भवन् प्रकटीभवन् यः आत्मभवात् कामात् क्षोभः व्याकुलत्वं तेन क्षता विद्धा भिन्ना वा धीरता धैर्य यस्याः सा स्मरातुरा इत्यर्थः, घनं निबिडं, रभसात् वेगात् कुचयुगावरकं पटं विगलितं यस्याः तादृशी, अनेन पीनपयोधरयोः साक्षात्स्पर्शसुखलाभः सूचित:, अतः धन्यं पुण्यवन्तं, मालती आलिङ्गति । अत्र आविर्भवदादेः विगलितादेश्च साभिप्रायत्वात् परिकरालङ्कारः, “अलङ्कारः परिकरः साभिप्राये विशेषणे ।" इति लक्षणात् । ५७१॥ तस्याः · सुरतकालिकशब्दोद्गारविशेषं प्रशंसति निर्दयेति । अपुण्यभाजः अकृतशोभनकर्माणो जना: । अहह इति परिक्लेशद्योतकं अव्ययं, " अहह स्यादनुशये परिक्लेश प्रहर्षयोः ।" इति विश्वलोचनः । कीदृशं तत् अहह इति वचः, सुरतकाले आवेगात् कामुकेन कृतं यत् निर्दयतरं ओष्ठखण्डनं अधरदंशनं तेन सव्यथः पीडासहितः यः हुङ्कारः पीडादर्शकः तत्सम्मर्दासहत्वेन वारणार्थो वा हुं इति ध्वनिः तेन ] मूर्छितं प्रसृतं [ व्याप्तम् । ] ॥ ५७२ ॥ [ आबद्धः प्रवर्तितः यः सुरतसङ्गरः रतियुद्धं तस्मिन् यः विमर्दः अङ्गानां निपीडनं तेन संक्षोभिता व्याकुला, दयिता प्रियतमा । स्मृतिजन्मा स्मर: काम:, तेन जनिताः नानाप्रकाराः ] विकृतयः क्षोभा: [ तद्रूपा या व्रततयः लताः ताभिः च्छन्नं आवृतं संसारं करोति । सुरतकालसंजातसंक्षोभप्रियारामणीयकावलोकिनः कामिनः सकलोऽपि संसार: कामजनितविकारमय इव शृङ्गाररसमय इव भाति इत्यभिप्रायः ॥ ५७३ ॥ आलिङ्गनस्य गाढशिथिलभेदयोः प्रयोगे तस्या अवस्थे प्रकटयति गाढेति । निबिडतरं आलिङ्गिता, कान्ता कमनीया प्रिया, प्रमोद: इष्टार्थस्य भोगजन्य -
५७१ धीरताद्य धृतरभसा (का) । ५७४ तु संप्रति वि० (गो) नु किञ्चित् ( प ) । विकारै: ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com