________________
कुट्टनीमतम्
गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः । संसारग्रहकारणमेका खलु मालती मम हि ॥५६९ ॥ अमृतकरावयवैरिव घटिता या दृढतरं परिष्वक्ता ।
चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥ ५७० ॥ जानीते उत्सृष्टेति । परिशेषितः परिशेषेण वर्तमान:, मात्रा मुक्तः त्यक्तः स्वसेवाया निष्कासितः, परिवारः दासादिः, यस्या: तां अल्पपरिजनां; संतर्पयामि प्रसादयामि सन्तुष्टां करोमि, सर्वस्वेनापि स्वकीयधनादिसर्वदानेनापि, हरिणाक्षी हरिणस्य अक्षिणी नेत्रे इव चञ्चले अक्षिणी यस्याः सा हरिणाक्षी (मध्यमपदलोपीसमासः ) ताम् । ५६८ ॥ स्वसर्वस्वत्यागमतिं समर्थयति गेहेनेति । गेहं गृहम् । ग्रहः ग्रहणं स्वीकारः, यद्वा ग्रहः आग्रहः आसक्तिः इति यावत् । खलु निश्चये । हि हेतौ यतः इत्यर्थः, "हि विशेषेऽवधारणे । हि पादपूरणे हेतौ” इति विश्वलोचनः । ५६९॥ इतः त्रयोदशभिः आर्याभिः स्वस्य संसारात्यागे उक्तं मालत्या: कारणत्वं स्मृतिपथमुपागततद्विशिष्टगुणगणस्य सङ्कीर्तनेन द्रढयति । तत्रादौ " आदौ रतं बाह्यमिदं प्रयोज्यं, तत्रापि चालिगनपूर्वमेतत् ।" (५।२६) इति रतिरहस्योक्तकामशास्त्रन्यायात् तदालिङ्गनमेव प्रशंसति अमृतेति । अमृतं सुधा तन्मयाः कराः किरणाः यस्य स अमृतकरः सुधांशुः चन्द्रः, तस्य अवयवैः कलाभिः, इव उत्प्रेक्षायां तस्याः सर्वेन्द्रियसंतर्पकत्वात्, घटिता निर्मिता, यथोक्तं भट्टोद्भटेन-"किं कौमुदीः शशिकलाः सकला विचूर्ण्य, संयोज्य चामृतरसेन पुनः प्रयत्नात् । कामस्य घोरहरहुंकृतिदग्धमूर्तेः संजीवनौषधिरियं विहिता विधात्रा ॥” इति । ] परिष्वक्ता आलिङ्गिता । [ चेतः चित्तम् । समत्वं तुल्यत्वम् । आनन्दरूपः “विगलितवेद्यान्तरत्वमानन्दस्य रूपम् ।" इति एकावल्याम् । ब्रह्मणः आनन्दरूपत्वं च "विज्ञानमानन्दं ब्रह्म' (बृहदा० उप० ३।९।२८) "प्रज्ञानघन एवानन्दमयः" (माण्डू०५) इत्यादिश्रतिषु प्रसिद्धम् । यस्या दृढालिङ्गनं ब्रह्मानन्दतुल्यमानन्दं प्रापयति इति भावार्थः । तथाहि पंचदश्याम्-"कुमारादिवदेवायं ब्रह्मानन्दैकतत्परः। स्त्रीपरिष्वक्तवद्वेद न बाह्यं नापि चान्तरम् ॥ " (११।५४ ) इति । ( अयं सुषुप्तः, स्त्रीत्यादि ' यथा प्रियया आलिंगितः कामी बाह्याभ्यन्तरविषयज्ञानशून्यत्वात् सुखमूर्तिर्भवति-तथा सुषुप्तो परमात्मना ऐक्यं गतो जीवः बाह्यादिविषयज्ञानाभावादानन्दरूप एव भवति ।) श्रुतिरपि-" तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद
५७० घटिता सा (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com