________________
दामोदरगुप्तविरचितं इदमास्तेऽलङ्करणं दुर्जननि गृहाण किं ममैतेन । तेनैव भूषिताऽहं गुणनिधिना भट्टपुत्रेण ॥ ५५५ ॥ उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् । एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥ ५५६॥
(कुलकम्) इति रागान्धः श्रुत्वा चेतसि कुरुते कदाचिदेवमिदम् । स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥ ५५७ ॥ जननी जन्मस्थानं बान्धवलोकं वसूनि जीवं च ।
पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते ॥५५८ ॥ दिसमृद्धिः, दुर्गतिः दारिद्यं, वा विकल्पे । तेन मम प्रियेण, सार्ध सह, द्वयमपि समानम् । एतादृशी चित्तवृत्ति: स्नेहेङ्गितं, प्रकृते तु वाङ्मात्रम् ॥ ५५४ ॥ प्रयोज्यवाक्येषु चरमं उपदिशति इदमिति । अलङ्करणं भूषणम् । दुर्जननी दुष्टा जननी, तस्या लोभग्रस्तत्वात् विशिष्टोक्तिः । अन्यभूषणादिभिः मे किमपि न प्रयोजनं, स एव मम प्रियभूतो मयि च स्निग्धः भट्टपुत्रः मम भूषणसर्वस्वं इति भावः । “ स्त्रीणां प्रियप्रणय एव हि भूरि भूषा।" इति (राष्ट्रौढवंशकाव्ये १४।५८)। " प्रियेषु सौभाग्यफला हि चारुता । " (कुमारसंभवे ५।१)(सौभाग्यं स्पृहणीयत्वं प्रियवाल्लभ्यं वा ।) इति चोक्तेः । " संभोगकेलिकुशलं रमणं रसज्ञाः स्त्रीणामकृत्रिमविभूषणमामनन्ति । " ८६) इति रत्नसिंहमुनिकृतप्राणप्रियकाव्ये एतच्छायः श्लोकः ॥ ५५५ ॥ वाक्यान्ते तदनुकूलां चेष्टां विकराला उपदिशति उचितेति । एवं अभिधाय, भूषणानि सावेगं अपनीय, मातुः पुरतः तानि समुत्सृज्य, यास्यसि इत्यन्वयः । भूषणानां सावेगं अपनयनं क्रोधानुभावः, क्रोधश्च मातुर्लोभमुद्दिश्य । यास्यसि दूरीभविष्यसि ॥५५६॥ रागान्धः अनुरागवशात् विवेकशून्यः कामुकः भट्टपुत्रः । एवं इदं वर्णयिष्यमाणप्रकारम् । चेतसि कुरुते विचार्य निश्चिनुते । अविधेयं अकरणीयम् । तथा हि उक्तं—“ युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलम् । " इति ॥ ५५७ ॥ तदेव विवृणोति जननीमित्यादि। बान्धवलोकं बंधुजनं मातपितृगोत्रसंबंधिनः । सीमन्तिन्यः सीमन्तः केशविन्यासः अस्याः अस्ति इति सिमन्तिनी वनिता ताः । तृणाय तृणवत् तुच्छम् । यथोक्तं विक्रमांकदेवचरिते-“ मरणमपि तृणं समर्थयंते मनसिजपौरुषवासितास्तरुण्यः । (६१३)
५५७ रागात्स (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com